________________
८
उत्तराध्ययन- मूलसूत्रम् - २ - १७ / ५५४ तार्थसाधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ?, दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एनामवाप्य तपस्येवोद्यन्तुमुचितमिति, ततः किमित्याह - 'चाइओ पडिचोरए 'त्ति चोदितः सन् प्रतिचोदयति यथा कुशलस्त्वमुपदेशकर्मणि न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्टं तपोऽनुतिष्ठति ?, शेषं तथैव । आयरियपरिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणित्ति वुच्चई ॥
मू. (५५५)
वृ . ' आचार्यपरित्यागी' ते हितपःकर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बालग्लानादिभ्य दापयन्त्यतो ऽतीवाहारलौल्यात्तत्परित्यजनशीलः परान् - अन्यान् पाषाण्डानसौगतप्रभृतीन् 'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकदभिप्रायतोऽत्यन्तमाहारप्रसक्तांस्तत एव हेतोः सेवते - तथा तथाऽपसर्पतीति परपाषण्डसेवक:, तथा च स्वेच्छाप्रवृत्ततया 'गाणंगणिए 'त्ति गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, तथा चागमः--'छम्मासऽब्धंतरतो गणा गण संकमं करेमाणो" इत्यादि, अत एव च 'दुर्निन्दायां', ततश्च 'दु:' इति निन्दितं भूतं - भवनमस्येति दुर्भूतः, दुराचारतया निन्द्यो भूत इत्यर्थः, अपरं तथैवेति सूत्रत्रयार्थः । सम्प्रति वीर्यातिचारविरहतस्तमेवाह
मू. (५५६ )
सयं गेहं परिच्चज्ज, परगेहंसि वावरे ।
निमित्तेन य ववहरई, पावसमणित्ति वुच्चई ॥
वृ. स्वमेव स्वकं, निजकमित्यर्थः, 'गेहं' गृहं 'परित्यज्य' परिहृत्य प्रव्रज्याङ्गीकरणतः 'परगेहे' अन्यवेश्मनि 'वावरे' त्ति व्याप्रियते-पिण्डार्थी सन् गृहिणामाप्तभावं दर्शयन् स्वतस्तत्कृत्यानि कुरुते, पठ्यते च - 'ववहरे' त्ति तत एव हेतोर्व्यहरति- गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, 'निमित्तेन च ' शुभाशुभसूचकेन 'व्यवहरति' द्रव्यार्जनं करोति, अपरं च पूर्ववत् । मू. (५५७) संनाइपिंडं जेमेइ, निच्छई सामुदानियं ।
गिहिनिसिज्जं च वाहेइ, पावसमणित्ति वुच्चई ॥
वृ.‘सन्नाय’त्ति स्वज्ञातयः-स्वकीयस्वजनास्तैर्निजक इति यथेप्सितो यः स्निग्धमधुरादिराहारो दीयते स स्वज्ञातिपिण्डस्तं 'जेमति' भुंक्ते, 'नेच्छति' नाभिलषति समुदानानि भिक्षास्तेषां समूहः सामुदानिकम्, 'अचित्त हस्तिधेनोष्ठकं' इति ठक्, बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमितियावत्, गृहिणां निषद्या- पर्यङ्कतृल्यादिका शय्या तां च 'वाहयति' त्ति सुखशीलतयाऽऽरोहति शेषं तथैवेति सूत्रद्वयार्थः ॥
सम्प्रत्यध्ययनार्थमुपसंहरन्नुक्तरूपदोषो सेवनपरिहारयोः फलमाह
मू. (५५८ ) एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुनिपवराण हिडिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ।।
वृ. 'एतादृश: ' यादृश उक्त 'पञ्चे 'ति पञ्चसङ्घयः कृत्सितं शीलमेषां कुशीलाः- पार्श्वस्थादयः समाहता: पञ्चकुशीलं तद्वदसंवृत्तः - अनिरुद्धाश्रवद्वारः पञ्चकुशीलासंवृतो रूपं रजोहरणादिकं . वेषं धारयति रूपधरः सूत्रे तु प्राकृतत्वाद्विन्दुनिर्देशः, 'मुनिप्रवराणाम्' अतिप्रधानतपस्विनां 'हिट्टिमो' अधस्ताद्वर्ती, अतिजघन्यसंयमस्थानवत्तित्वान्निकृष्ट इत्यर्थः । एतत्फलमाह
www.jainelibrary.org
Jain Education International
-
For Private & Personal Use Only