________________
अध्ययनं - १४, [ नि. ३७३]
मू. (४४६ ) पियपुत्तगा दुत्रिवि माहनस्स, सकम्मसीलस्स पुरोहियस्स । सरितु पांराणिय तत्थ जाई, तहा सुचिण्णं तव संजमं च ॥
वृ. जाति: - जन्म जरा विश्रसा मृत्यु: - प्राणत्यागलक्षणस्तेभ्यो भयं साध्वसं तेनाभिभूतौबाधित जातिजरामृत्युभयाभिभृतौ, पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने बहिः संसाराद्विहारः - स्थानं बहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तम्-अन्तःकरणं ययोस्तों, तथा संसारश्चक्रमिव चक्रं भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षगार्थं परित्यागनिमित्तं दृष्ट्वा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृष्ट्वे' ति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'तौ' अनन्तरोक्तौ 'कामगुणे' त्ति सुब्व्यत्ययात् 'कामगुणेभ्यः' शब्दादिभ्यो विषयसप्तमी वा 'विरक्ती' पराङ्मुखीभूतौ प्रियो - वल्लभौ तौ च तौ पुत्रावेव पुत्रक, द्वावपि नैक एव इत्यपिशब्दार्थः 'मोहनस्य' ब्राह्मणस्य 'स्वकर्मशीलस्य' यजनयाजना-दिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः 'सरितु' त्ति स्मृत्वा 'पोराणिय' ति सूत्रत्वात्पुराणामेव पौराणिक - चिरन्तनीं 'तत्रे' ति सन्निवेशे कुमारभावे वा, वर्त्तमानाविति शेषः, 'जाति' जन्म तथा 'सुचिन्नं 'त्ति सुचीर्णं सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः - अनशनादिः, प्राकृतत्वाद्विन्दुलोप:, संयमं च तपः संयममिति समाहारद्वन्द्वो वा अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ततस्तौ किमकाम् ? इत्याह
1
मू. (४४७) ते कामभोगेसु असज्जमाना, मानुस्सएसुं जे यावि दिव्वा । मुक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु ॥
वृ. 'तौ' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु 'असज्जमान'त्ति असंसजतौ सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्वन्धिषु ये चापि 'दिव्याः ' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः. 'मोक्षाभिकाङ्क्षिणौ' मुक्त्यभिलाषिणी 'अभिजात श्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं' वक्ष्यमानं 'उदाहु' त्ति उदाहरताम्। तयोर्हि साधुदर्शनानन्तरं क्वास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्नं, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमानमुक्तवन्ताविति सूत्रार्थः ॥
यच्च तावुक्तवन्तौ तदाह
मू. ( ४४८ )
Jain Education International
३३७
For Private & Personal Use Only
-
असासयं दठ्ठे इमं विहार, बहुअंतराय न य दीहमाउं । तम्हा हिंसि न रई लभामो, आमंतयामो चरिसामु मोनं ॥
'वृ. 'अशाश्वतम्' अनित्यं दृष्ट्वा 'इमं' प्रत्यक्षं विहरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, भण्यते हि "भोगभोगाई भुंजमाने विहरति "ति, किमित्येवमत आह- बहवः -- प्रभूता अन्तरायाः - विघ्ना व्याध्यादयो यस्य तद्बह्वन्तरायं, बह्वन्तरायमपि दीर्घत्वा (घा) स्थायि स्यादित्याह-‘नच' नैव ‘दीर्घं' दीर्घकालस्थित्या 'आयुः 'जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात्, यत एवं सर्वमनित्यं तस्माद् 'गिर्हसि 'न्ति 'गृहे' वेश्मनि न 'रतिं' धृति 'लभामो 'त्ति लभावहे - ह-प्राप्नुवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविध्यावहे 'मौन' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते
28/22
-
www.jainelibrary.org