________________
उत्तराध्ययन- मूलसूत्रम् - १-१३/४१६ अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुत्रफलोववेओ ॥
वृ. 'सर्व' निरवशेषं 'सुचीर्णं शोभनमनुष्ठितं तपः प्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्ण' प्रोषितव्रत' मित्यादिरूढित: साधुत्वं, सह फलेन वर्त्तत इति सलेन वर्त्तत इति सफलं नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां किमिति ?, यतः कृतेभ्यः - अर्थादवश्यवद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः ' मुक्तिरस्तीति, ददति हि तानि निजफलमवश्यमिति भावः, प्राकृतत्वाच्च सुळ्यत्ययः, स्यादेतत्-त्वयैव व्यभिचारइत्याह-'अर्थे:' द्रव्यैरथैर्वा-प्रार्थनीयैः, वस्तुभिरिति गम्यते, कामैश्च-मनोज्ञशब्दादिभिः 'उत्तमै: ' प्रधानैः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम पुण्यफलेन-शुभकर्मफलेनोपपेतः - अन्वितः स पुण्यफलोपपेतः इति ॥
यथा त्वं 'जानासि' अवधारयसि 'संभूत!' पूर्वजन्मनि संभूताभिधान ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिकं' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि 'जानीहि ' अवबुद्धस्व‘तथैव' अविशिष्टमेव 'राजन्!' नृप !, किमित्येवमत आह- ऋद्धिः - सम्पत् द्युतिः - दीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बह्वीत्यर्थः, यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादौ आत्मेत्यनुवर्त्तते, अर्थवशाच्च विभक्तिपरिणामः, ततश्चैवं योज्यते - हे संभूत! यथा त्वभात्मानं महानुभागादिविशेषणविशिष्टं जानासि तथा चित्रमपि जानीहि चित्रनाम्नो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः, शेषं प्राग्वत् ॥
मू. ( ४१७ ) : जानाहि संभूय ! महानुभागं, महिड्डियं पुन्नफलोववेयं । चित्तंपि जानाहि तहेव रायं!, इड्डी जुई तस्सवि अप्पभूआ ॥
मू. ( ४१८ )
महत्थरूवा वयणप्पमूया, गाहानुगीया नरसंघमज्झे ।
TW
जं भिक्खुणो सीलगुणोववेया, इहऽज्जयंते समणोऽम्हि जाओ ॥ वृ. यदि तवाप्येवंविधा समृद्धिरासीत् तत्किमिति प्रव्रजित इत्याह- महान् - अपरिमितोऽनन्तद्रव्यपर्यायात्मकतयाऽर्थः - अभिधेयं यस्य तन्महार्थं रूपं स्वरूपं न तु चक्षुर्ग्राह्यो गुणः, ततो महार्थं रूपं यस्याः सा तथा, महतो वाऽर्थान् जीवादितत्त्वरूपान् रूपयति दर्शयतीति महार्थरूपा, 'वयणप्पभूय'त्ति वचनेन अप्रभूता अल्पभूता वा अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत्, केयमीदृशीत्याह - गीयत इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति - तीर्थकृद्गणधरादिभ्यः पश्चाद्गीता अनुगीता, कोऽर्थः ? - तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनु - कूलैव देशना क्रियते इति ख्यापितं भवति । क्वेत्याह- नराणां पुरुषाणां सङ्घः- समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह- 'यां' गाथां 'भिक्षवः' मुनयः शीलं चारित्रं तदेव गुण:, यद्वा गुणः पृथगेव ज्ञानं ततः शीलगुणेन शीलगुणाभ्यां वा चारित्रज्ञानाभ्यामुपेताः - युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अञ्जयंते 'त्ति अर्जयन्ति पठनश्रवणतदर्थानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणो' इत्यत्र श्रुत्वेति शेषः, ततो यां श्रुत्वा 'जयंति 'त्ति 'इह' अस्मिन् जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकणिता, ततः 'श्रमण: ' तपस्वी अस्मि अहं जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च - 'सुमणो 'त्ति सुमनाः
For Private & Personal Use Only
३२६
Jain Education International
www.jainelibrary.org