________________
अध्ययनं-१३,[ नि. ३५५ ]
३२५ इमा नो छट्ठिया जाई, अन्नमन्त्रेण जा विना ।। वृ. चक्रवर्ती 'महर्द्धिकः' वृहद्विभूितिब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदर्य 'बहुमानेन' मानसप्रतिबन्धेन 'इदं वक्ष्यमानलक्षणं वचनं' वाक्यं अब्रवीद' इत्युक्तवान, यथा 'आसिमो'त्ति अभृवावां भ्रातरौ द्वावपि 'अन्योऽन्यं' वन्तौ, तथा अन्यौऽन्यहिनैपिणौ' परस्परशुभाभिलापिणौ, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचिनतातिशयख्यापनार्थं, मकारश्च सर्वत्रालाक्षणिकः।
केपु पुनर्भवेष्वित्थमावामभूवेत्याह-दासौ ‘दशार्णे' दशार्णदेशे 'आसि'त्ति अभूव, मृगौ 'कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ 'मृतगङ्गातोरे' उक्तरूपे, 'श्वपाकौ' चाण्डालो 'कासिभूमिए'त्ति काशीभृम्यां काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माभिधानेऽभूव 'अ 'त्ति आवां महर्द्धिको न तु किल्बिपिको, ‘इमा मे'त्ति 'इमा नो 'त्ति वा उभयत्रेयमावयोः पप्ठ्येव पष्ठिका जातिः, कीदृशी येत्याह-'अन्नमन्त्रेणं'ति अन्योऽन्येन परम्परेण या विना, कोऽर्थः? - परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भाव इति सूत्रचतुष्ठयार्थः ।। इत्थं चक्रवर्तिनोक्ते मुनिराहमू. (४१४) कम्मा नियाणप्पगडा, तुमे राय! विचिंतिया।
तेसि फलविवागणं, विप्पओगमुवागया। वृ. 'कर्माणि ज्ञानावरणादीनि नितरा दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधसानुबन्धफलाभावतस्तपः-प्रभृतीन्यनेनेति निदानं-साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानिविहितानि निदानप्रकृतानि, निदानवशनिबद्धानीति योऽर्थः, त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूतार्तध्यानादिध्यानतः कर्माण्यपि तथोच्यन्ते 'तेपाम्' एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाशुभजनकत्वलक्षणः फलविपाकस्तन, यद्वा कर्माणि-अनुष्ठानानि 'नियानपयड'त्ति निदानेनैव शेषशुभानुष्ठानस्याच्छादितत्वात्प्राग्वत्प्रकटनिदानानि त्वया राजन् ! विचिन्तितानि कृतानीतियावत, तेषां फलं कमात्कर्म तद्विपाकेन 'विप्रयोगं विरह 'उपागतौ' प्राप्तौ, किमुक्तं भवति ?-यत्तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः । इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाहमू. (४१५) सच्चसोअप्पगडा, कम्मा मए पुरा कडा।
ते अज्ज परिभुंजामो, किं नु चित्तेवि से तहा?॥ वृ. सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्ठानं ताभ्यां प्रकटानि-प्रख्यातानि कर्माणि-प्रक्रमाच्छुभानुष्ठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि, यानीति गम्यते, तानि 'अद्य' अस्मिनहनि, शेषतद्भवकालोपलक्षणं चैतत् 'परिभुंजामो'त्ति परिभुञ्जे-तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये, यथेति गम्यते, किमिति प्रश्ने, 'नु' इति वितर्के, 'चित्रोऽपि' चित्रनामाऽपि, कोऽर्थः ? - भवानपि 'से' इति तानि तथा परिभुङ्क्ते ?, नैव भुक्ते, मिक्षुकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपाजितानि शुभकर्माणि विफलानिजातानीत्याशय इति सूत्रार्थः ।। मुनिराह
मू.(४१६) सव्वं सुचिण्णं सफलं नराणं, कडाण कम्मान न मुक्खु अत्थि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org