SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१३. नि. ३५४ ] ३२३ तनानुकम्पापरेण, दृष्टश्च तयाऽसौ, जातस्तस्यापि तदनुरागः, प्रवृत्तं च तयोर्मोहनक, एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात्, उक्तं चात्मानं ख्यापयितुं कुमारं प्रति, यथा-गहनं नदीकडङ्ग ततोऽपि गहनतराण्येव गहनतरकाणि पुरुपहृदयानि भवन्ति, अयं चानेन ध्वनितोऽर्थः-यथा वयं जानीम: स्त्रीहदयान्यतिगहनानि भवच्चित्तेन च तान्यपि जितानीत्युक्त्वा प्रति प्रत्याययितुमाह-'देहाणिन्ति देहीदानी 'पूर्णपात्रम्' अक्षतभृतभाजनं प्रियं खलु 'नः' अस्माकं यद्दारको जात इति, ते (इति) वक्तव्ये यन्न इत्युक्तं तदैक्यं द्योतयितुं, इत्युक्त्वा च तया धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं, गता च पत्यैवसह, ततश्च निर्गतोऽसौ कुडङ्गात्कृतपरिहास: प्रवृत्तो गन्तुं, प्राप्त: सुप्रतिष्ठं, तत्र च कुसकुण्डी नाम कन्या 'भिकुंडिवित्तासियंमि जियसत्तुं'ति आपत्वादुभयत्र सुब्यत्ययः. 'भिकुण्डिवित्रासिताद्' भिकुण्डिनामनृपतिनिष्काशितात् 'जितशत्रोः' जितशत्रुनामनृपतेः सकाशान्मथुरातोऽहिच्छत्रां व्रजन् 'अन्तरे' अन्तराले 'लभते' प्राप्नोति । तथेन्द्रपुरे शिवदत्तो नाम रुद्रपुरे च विशाखदत्ताभिधानस्तद्दुहितरौ 'बटुकत्वेन' दीर्घपृष्ठपुरुषभीत्या कृतब्राह्मणवेषेण लभते कन्ये द्वे राज्यं च। ततो राजगृहं मिथिला हस्तिनागपुरं चम्पां तथैव श्रावस्तीम्, अभ्रमीदिति शेषः एषा तु' अनन्तरमुपदशिता नगरहिण्डिर्बोद्धव्या ब्रह्मदत्तस्येति । एवं च भ्रमतोऽस्य मिलिताः कटककरेणुदत्तादयः पितृवयस्याः, गृहीता: कियन्तोऽपि प्रत्यन्तराजानः, समुत्पन्नं चक्ररलं, प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिता: परिणीतकन्यापितरः, समुत्पन्नानि च यथाऽवसरं शेषरत्नानि, साधितं षटखण्डमपि भरतं, प्राप्ताश्च नवापि निधयः, परिणतं चक्रवर्तिपदं, एवं चसुकृतफलमुपभुञ्जतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणंअनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मविमाने देवोऽभवं । इत्येकादशनियुक्तिगाथार्थः। इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्ती जातः, चित्रस्य तु का वार्तेत्याहमू.(४०८/२) चित्तो पुण जाओ पुरिमतालंमि। सिद्विकुलंमि विसाले धम्म सोऊण पव्वइओ।। वृ. पादत्रयं, चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवत्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चितमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनाम्नि विमाने, ततस्तत्र स्वस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि क्वेत्याह- श्रेष्ठिकुले' वणिक्प्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौ 'धर्म' यतिधर्म क्षान्त्यादिकं श्रुत्वा' आकर्ण्य प्रवजितः' प्रव्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थः ।। ततः किमित्याहमू. (४०९) कंपिल्लंमि अनयरे समागया दोऽविचित्तसंभूया। सुहुदुक्खफलविवागं कर्हिति ते इकमिक्कस्स। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy