________________
उत्तराध्ययन-मूलसूत्रम्-१-१३/४०८ निटकवर्ती कटपादपः, शायितस्तत्र शीतलच्छाये तत्पल्लवोपरचित श्रस्तरे ब्रह्मदत्तः, कृतश्च वरधनुना तेन सह सङ्केत:- यथा यदि मां कथञ्चिद्दीर्धप्रहितपुरुषाः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति, गतोऽसौ जलान्वेषणाय, दृष्टं चैकत्रपद्मिनीखण्डमण्डितं सर:, गृहीतं च पद्मिनीपत्रपुटके जलं, प्रवृत्तस्य च ब्रह्मदत्ताभिमुखमागन्तुं ग्रहणं तहटासन्नदेशे, कथञ्चिदुपलब्धतदपसरणवृत्तान्तैर्दीर्घपृष्ठप्रहितपुरुपरतिरोषवद्भिवरधनोर्बन्धनं वल्लीवितानेन आक्रोशनं चैव दुष्टवचसा कृतं । अन्यच्च-स हन्यते मुष्टिप्रहारादिभिरमात्यो-वरधनुः, भण्यते च-यथा 'देही ति ढोक्य कुमारमरे ! दुराचार ! क्व पुनरसौ नीतस्त्वया राजपुत्र इति?, अत्रान्तरे सङ्केतमनुसरता पठितमिदमनेन
"सहकारमञ्जरीमनुधावति मधुपो विमुच्य मधु मधुरम् ।
___ कमले कलयन् पश्चात्सङ्कोचकृतां खतनुब्राधाम् ।।' गलीयविरेयणपीतो'त्ति प्राकृतत्वात्पीतविरेचनगुलिकः, स हि तैर्ग्रहीतुमुपक्रान्तोऽन्यथाऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिकां प्रथममेव पयसा पीतवान्, विरक्तश्च तया, जाताश्च मुखे फेनबुबुदाः, एवं च कपटेन मृतः कपटमतो मृत इति 'छर्दितः' त्यक्तस्तैः । इतश्च तत्पठितं श्रुत्वा कुमारो 'भीतः' इति त्रस्तः 'अथ' अनन्तरम् 'उप्पह'ति उत्पथेन 'पलायित्थ'त्ति पलायितवान्, तथा च तं पलायमानमवलोक्य कृत्वा स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थं वाहेसिअपत्ति वाहितवान् व्यंसितवानित्यर्थः कुवारं! __ ततश्च परिभ्रमतो वटपुरकं तस्माच्च ब्रह्मस्थलकं वटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वाराणसी राजगृहं गिरिपुरं मथुरा अहिच्छत्रा च।
ततोऽपि गच्छताऽरण्यानीं प्रविष्टेन दृष्टास्तापसाः, प्रत्यभिज्ञातश्च तैर्ब्रह्मराजस्यास्मन्निजकस्य सुत इति, धृतश्चातुर्मासी, तत्र च तापसकुमारकै: सह क्रीडतैकस्मिन् दिनेऽवलोकितो वनहस्ति, समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च विविधगजशिक्षाभिरमुंखेदयितुं, आरूढश्च निष्पन्दीकृत्य तत्पृष्ठं, प्रवृत्तश्चासौ कुमारापहरणाय, वीक्षितश्च कियदपिदूरंगतेनैकस्तरुः, लग्नश्च तदधो व्रजति हस्तिनि विटपैकदेशे कुमारः, अपक्रान्ते च करिणि ततस्तरोरित्तीर्यविमूढदिग्भागो भ्रमितुमारेभे, भ्राम्यंश्चारण्याद्विनिर्गत्य गतो वटपुरं, वटपुराच्च प्रस्थितः श्रावस्ति, गच्छंश्च प्राप्तस्तथाविधमेकमन्तरा ग्राम, उपविष्टश्च तन्निकटविटपिनि विश्रमितुं, दृष्टश्चैकेन तत्रत्य श्रेष्ठिना, नीतश्च तेन स्वं गृहं, कृतं चाभ्यागतकर्त्तव्यं, परिणायितश्च नेमित्तिकादेशतः स्वदुहितर, उपचरितश्च भुजगनिर्मोकसदृशैविविधवसनैर्लग्नेन्द्रनीलादिप्रधानमणिभिः कटककेयूरकुण्डलादिभिश्चाभरणः, ततस्तद्गुणलुब्धमानसः स्थितस्तत्रैव कियत्कालं, जनयति तदा तद्दुहितरि कुमारं।
इतश्च प्राप्ताः कृतान्तानुकारिणो दीर्घपृष्ठप्रहितपुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुं, उपलब्धतद्वृत्तान्तश्च नष्टस्तद्भयात्, प्रचलितश्च सुप्रतिष्ठपुराभिमुखं गन्तुं, तत्र च मिलितः कश्चिद्विटः कार्पटिको, दृष्टं चाभिमुखमागच्छत् किञ्चित् तथाविधं मिथुनकं, दृष्ट्वा च तदङ्गनां उदाररूपां कुमारमयमवोचत्-यदि युष्मत्प्रसादतः कथञ्चिदेनां कामयेय इति, ततस्तदुपरोधात्तेनोक्तं-प्रविश तहि वंशीकुडङ्ग, स्थितः पथि कुमारः प्राप्तं च मिथुनं, उक्तस्तत्पतिःमदीयं कलत्रमिह गर्भशूलाभ्याहतमास्ते तद्विसर्जय क्षणमेकं स्वकीयपत्नी, विसर्जिता चासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org