________________
२९८
उत्तराध्ययन-मूलसूत्रम्-१-१२/३५९
अध्ययनं - १२- हरिकेशीय) वृ. व्याख्यातमेकादशमध्ययनमधुना द्वादशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यलो विधेय इति ख्यापनार्थं तपःसमृद्धिरुपवर्ण्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चतुरनयोगद्वारचर्चा प्राग्वत् तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य हरिकेशीयमिति नाम, अतो हरिकेशनिक्षेपमाह नियुक्तिकृत्नि.[३१८]
नामं ठवणादविए० ।। नि.[३१९]
जाणयसरीरभविए०॥ नि.[३२०] हरिएसनामगोअंवेअंतो भावओ अ हरिएसो!
तत्तो समुट्ठियमिणं हरिए सिज्जति अज्झयणं ।। वृ. हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने क्षुन्ने, द्विविधो भवति 'द्रव्ये' द्रव्यविषयः-आगमनोआगमतश्च, तत्र आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतश्चस त्रिविधो-ज्ञशरीरभव्यशरीरतद्वयतिरिक्तश्च, स पुनः त्रिविध:-एवभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, हरिकेशनामगोत्रं वेदयन् भावतस्तु हरिकेश उच्यते, ततोऽभिधेयभूतात् समुत्थिमिदं हरिकेशीयं इत्यध्ययनमुच्यते इति शेषः, इति गाथात्रयार्थः ।सम्प्रति हरिकेशवक्तव्यतामाह नियुक्तिकृत् नि.[३२१] पुव्वभवे संखस्स उ जुवरन्नो अंतिअंतु पव्वज्जा।
जाईमयं तु काउं हरिएससकुलंमि आयाओ॥ नि.[ ३२२] महुराए संखो खलु पुरोहिअसुओ अ गयउरे आसी।
दट्ठण पाडिहेर हुयवहरत्थाइ निक्खंतो।। नि. [ ३२३] हरिएसा चंडाला सोवाग मयंग बाहिरा पाणा।
साणधणा य मयासा सुसाणवित्ती य नीया य ।। नि.[ ३२४] जम्मं मयंगतीरे वाणारसिगंडितिदुगवनं च।
कोसलिएसु सुभद्दा इसिवंता जन्नवाडंमि ।। नि.[ ३२५] बलकुट्टे बलकोट्टो गोरी गंधारि सुविनगवसंतो।
नामनिरुत्ति छणसप्प संभवो दुंदुहे बीओ॥ नि.[३२६] भद्दएणेव होअव्वं पावइ भदाणि भद्दओ।
सविसो हम्मए सप्पो, भेरुंडो तत्थ मुच्चइ।। नि.[३२७] इत्थीण कहित्थ वट्टई, जनवयरायकहित्थ वट्टई।
पडिगच्छह रम्म तिंदुअं, अइसहसा बहुमुंडिए जने ॥ वृ. एतदक्षरार्थः सुगम एव, नवरं अंतियं तु' इति अन्तिके-सपीमे, 'तुः' पूरणे, पाडिहेरं'ति प्रतिहारो-दौवारिकस्तद्वत्सदा सन्निहितवृत्तिर्देवताविशेषोऽपि प्रतिहारस्तस्य कर्म प्रातिहार्य, तच्चेह हतवहरथ्यायाः शीतलत्वं, तथा हरिकेशाश्चाण्डालाः, श्वपाका: मातङ्गा बाह्याः पाणाः श्वधनाश्च मृताशाः श्मशानवृत्तयश्च नीचाश्चेत्येकार्थिकाः, तथा 'मयङ्गतीरे'त्ति मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी सा चासौ गङ्गा च मृतगङ्गा तस्यास्तोरं तस्मिन् ऋषिवन्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org