________________
अध्ययनं-११,[ नि.३१७] परनिपातः प्राग्वत्, एवम्' इति मन्दरवत् भवति बहुश्रुतः, श्रुतमाहात्म्येन ह्यसावत्यन्तस्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनत्यन्विता आमाँ पध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः । किं बहुना?मू. ( ३५७) जहा से सयंभूरमणे, उदही अक्खओदए।
नानारयणपडिपुत्रे, एवं भवइ बहुस्सुए। वृ. यथा स स्वम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन स तथा, नानारत्ने:- नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो- भत: नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, यदिवाऽ क्षत उदयः-प्रादुर्भावो यस्य सोऽक्षतोदय इति सूत्रार्थः ।। साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाहमू. ( ३५८) समुहगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया।
सुयस्स पुन्ना विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं गया। वृ.'समुद्दगंभीरसम'त्ति आर्पत्वाद्गाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमा; समुद्रस्य गाम्भीर्यसमा: समुद्रगाम्भीर्यसमाः, 'दुरासय'त्ति दुःखेनाश्रीयन्ते-अभिभवबुद्धयाऽऽसाद्यन्ते वा-जेतुं सम्भाव्यन्ते केनापीति दुराश्रया दुरासदावा, अत एव अचिक्किय'त्ति अचकिता:--अत्रासिताः, केनचिदिति परीषहादिना परप्रवादिना वा, तथा दुःखेन प्रधय॑न्तेपराभूयन्ते केनापीति दुष्पवर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ? इत्याह-'सुयस्स पुना विउलस्स'त्ति-सुव्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः- परिपूर्णा विपुलेन-अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह'क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि, गम्यत इति गतिस्ताम्, 'उत्तमा प्रधानां, मुक्तिमितियावत्, 'गताः' प्राप्ताः, उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थं व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः । इत्थं बहुश्रुतस्य गुणवर्णनात्मिकां पूजामभिधाय शिष्योपदेशमाहम.(३५९) तम्हा सुयमहिद्वेज्जा, उत्तममढवगेसए।
जेनऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि।त्तिबेमि वृ. यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिनाऽऽश्रयेत, उत्तमः-प्रधानोऽर्थ:-प्रयोजनम-उत्तमार्थः,सच मोक्ष एव तं गवेषयति' अन्वेषयतीति उत्तमार्थगवेषकः, येन किं स्यादित्याह- 'येन' श्रुताश्रवणेन 'आत्मानं' स्वं परं' चान्यं तपस्व्यादिकं एवः' अवधारणे भिन्नक्रमश्च सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः, ततः 'सिद्धि' मुक्तिगति 'संपाउणिज्जासि'त्ति सम्यक् प्रापयेदेव, नेह कश्चित् सन्देह इति सूत्रार्थः ।। 'इतिः परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि पूर्ववदेव॥
अध्ययनं - ११ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता उत्तराध्ययन सूत्रे एकादश अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org