________________
२२०
उत्तराध्ययन-मूलसूत्रम्-१-६/१६९ न चैतच्चारु, न हि रोगिण इवौपधादिपरिज्ञानतो भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितां क्रियामननुष्ठाय मुक्तिः ।। ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयेवमात्मानं स्वस्थयन्ति, तथा चाहमू. (१७०) भयंता अकरिता य, बंधमोक्खपइत्रिणो।
वायाविरियमेत्तेणं, समासासेंति अप्पगं ।। वृ.'भणन्तः' प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च' मुक्त्युपायमनुष्ठानं, बन्धमोक्षौ उक्तरूपौ तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाच्चेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एव केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम्-आत्मशक्तिर्वाग्वीर्य वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामनि इति स्वास्थ्यं प्रापयन्ति, कम्?-आत्मानमिति सूत्रार्थः ॥ यथा चैतन्न चारु तथा स्वत एवाहमू. (१७१) नचित्ता तायए भासा, कओ विज्जाणुसासणं?
विसन्ना पावकम्मेहि, बाला पंडियमानिनो। व.'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह-भाष्यत इति भाषा-वचनात्मिका, स्यादेतत्अचिन्त्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमन्त्रात्मिका वाक् त्राणाय भविष्यतीत्याह, कुतो? विदन्त्यनया तत्त्वमिति विद्या-विचित्रमन्त्रात्मिका तस्या अनुशासनं-शिक्षणं विद्यानुशासनं त्रायते पापाद्भावद्वा?, न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदेवाह-विविधम्-अनेकप्रकारंसनामग्ना विषण्णाः, केषु?- 'पावकम्मेहि ति पापाकर्मसु पापहेतुषु हिंसाद्यनुष्ठानेषु, सततं तत्कारितयेति भावः, यद्वा विषण्णा-विषादं गताः पापकर्मभिः-पापानुष्ठानैः यथा कथमेवमनुष्ठायिनो वयं भविष्याम इति, पठन्ति च-'विसन्ना पावकिच्चेहिं'ति तथैव, कुतस्त एवंविधा इत्याह-'बाला' रागद्वेषाकुलिताः पण्डितमात्मानं मन्यन्ते इत्येवंशीला: पण्डितमानिनः, ये हि बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुः तदुपदेशतश्च तानि परिहरेयुः न तु विषण्णा एवासीरन्, ये तु बालाः पण्डितमानिनश्च ते स्वयमजानाना अपि जानानमन्यमात्मन्यभिमानतोऽनुपासमाना एवंविधा एव भवन्तीति सूत्रार्थः।। साम्प्रतं सामान्येनैव मुक्तिपथपरिपन्थिनां दोषदर्शनायाहमू.(१७२) जे केइ सरीरे सत्ता, वन्ने रूवे य सव्वसो।
मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ॥ वृ. ये केचित् ‘शरीरे' शरीरविषये 'सक्ता' बद्धाग्रहाः, क्व? इत्याह-'वणे' सुस्निग्धगौरत्वादिके 'रूपे च' सुसंस्थानतायां, चशब्दात् स्पर्शादिषु, वस्त्राद्यभिष्वङ्गोपलक्षणं चैतत्, 'सव्वसो'त्ति सूत्रत्वात् सर्वथा-सर्वैः स्वयंकरणकारणादिभिः प्रकारैः, मनसा कथं वर्णादिमन्तो वयं भविष्याम? इत्यभिसन्धिना, वचसा रसायनादिप्रश्नात्मकेन, चशब्दात् कायेन च रसायनाद्युपयोगेन, एवेति पूरणे, पठ्यते च-'कायवक्केणं'ति कायश्च-शरीरं वाक्यं च-वचनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org