SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-६,[ नि.२४३] इत्थं प्राणातिपातलक्षणा श्रवनिरोधमभिधाय शेषा श्रवनिरोधमाहमू.(१६८) आयाणं नरयं दिस्स, नायइज्ज तणामवि। दोगुंछी अप्पणो पाते, दिन्नं भुजेज्ज भोयणं॥ वृ.आदीयत इत्यादानं-धनधान्यादि "कृत्यल्युटोऽन्यत्रापी"ति कर्मणि ल्युट्, आर्षत्वादादानीयं वा, नरककारणत्वान्नरकं दृष्ट्वा, किमित्याह-'नाददीत' न गुह्णीत न स्वीकुर्यादितियावत्, 'तेनामवि'त्ति तृणमपि, आस्तां रजतरूप्यादि, कथं तर्हि प्राणधारणमित्याह-'दोगुंछी' - त्याद्यधु, जुगुप्सते आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः इति आत्मसम्बन्धिनि पात्रे-भाजने प्राप्ते वा भोजनसमय इति शेषः, 'दत्तं' निसृष्टं, गृहस्थैरिति गम्यते, 'भूजेज्ज'त्ति भुञ्जित भोजनम्-आहारं, अनेनाहारस्यापि भावतोऽस्वीकरण-माह, जुगुप्सिशब्देन तदप्रतिबन्धदर्शनात्, ततश्च परिग्रहाश्रवनिरोध उक्तः, तदेवं 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति न्यायात् मृषावादादत्तादानमैथुनात्मका श्रवत्रयनिरोध उक्तः, यद्वा 'सत्यमिच्छेदिति सत्यशब्देन साक्षात्संयममपि वदता मृषावादनिवृत्तिराक्षिप्ता, तद्द्वारेणापि तस्य सत्यत्वात्, आदानमित्यादिना तु साक्षाददत्तादानविरतिरुक्ता, आदानं हि ग्रहणमेव रूढं, तच्चादत्तस्येति गम्यते, तं 'नरकं' नरकहेतुं दृष्ट्वा नाददीत तृणमप्यदत्तमितीहापि गम्यते, 'गवास' मित्यादिना तु परिग्रहाश्रवनिरोधः, तन्निरोधाभिधानाश्च नापरिगृहीता स्त्री भुज्यत इतिकृत्वा मैथुनाश्रवनिरोधोऽप्युक्त एव। नन्वेवं स्वयं त्यक्तगवादिपरिग्रहस्य परकीयं चानाददानस्य कथं प्राणवृत्तिः?, इत्याहजुगुप्स्यात्मनः पात्रे दत्तं भुञ्जीत भोजनमिति, पात्रग्रहणं तु व्याख्याद्वयेऽपि मा भूत् निप्परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद् व्यामोह इति ख्यापनार्थ, तदपरिग्रहे हि तथाविधलब्ध्याद्यभावेन पाणिभोक्तृत्वाभावाद्गृहिभाजन एव भोजनं भवेत्, तत्र च बहुदोषसम्भवः, तथा च - "पच्छा कम्म परेकम्म,सिया तत्थ न कप्पइ। एयमटुं न भुजंति, निग्गंथा गिहिभायणे ॥" इति । एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमू. ( १६९) इहमेगे उ मन्नति, अप्पच्चक्खाय पावगं । . आयरियं विदित्ता णं, सव्वदुक्खा विमुच्चइ । वृ.'इहे'त्यस्मिन् जगति मुक्तिमार्गविचारे वा एके' केचन कपिलादिमतानुसारिणः 'तुः' पुनरर्थे 'मन्यन्ते' अभ्युपगच्छन्ति, उपलक्षणत्वात्प्ररूपयन्ति च, यथा 'अप्रत्याख्याय' अनिराकृत्य 'पापकं प्राणातिपातादिविरति मकृत्वैव'आयरियं'ति सूत्रत्वात् आराद्यातं सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तद् 'विदित्वा' ज्ञात्वा 'सर्वदुःखेभ्य' आध्यात्मिकाधिभौतिकाधिदैविकलक्षणेभ्यः स्वपरिभाषया शारीरमानसेभ्यो वा 'मुच्यते' पृथग्भवति, तथा चाह __"पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः।। शिखो मुण्डी जटी वापि, मुच्यते नात्र संशयः ।।" यद्वाऽऽचरणमाचरितं तत्तत्क्रियाकलापः, पाठान्तरश्च-'आचारिकं' निजनिजाचारभवमनुप्टानमेव, तद्विदित्वा-स्वसंवेदनतोऽनुभूय सर्वदुःखाद्विमुच्यते, एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy