________________
२१६
उत्तराध्ययन-मूलसूत्रम्-१-६/१६० ग्रन्थमुक्ताः, अनेन च रजोहरणमुखवस्त्रिकावर्षाकल्पादेर्दशविधबाह्यग्रन्थान्तर्गतत्वेऽपि धर्मोपकरणत्वेनानवद्यतयाऽमुक्तावपि निर्ग्रन्थत्वमुक्तम्, एवं च मा भूत्कस्यचिद्यामोहो-. बाह्येनैव सावद्यग्रन्थेन मुक्ता इत्याह-आभ्यन्तरबाह्येन ग्रन्थेन, न तु बाह्येनैव, मुक्ता इति शेषः, 'एपा' अनन्तरोक्ता 'खलु' निश्चितं निरिति-निश्चिताऽधिका वा युक्तिरस्यामिति नियुक्तिाःनामनिष्पत्रनिक्षेपनियुक्तिरित्यर्थः, कस्येत्याह-'खुड्डागणियंठसुत्तस्स'त्ति क्षुल्लकनिर्ग्रन्थनामकं सूत्रं तस्येति गाथार्थः ।। इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तस्य चायमभिसम्बन्धः-इहानन्तराध्ययनसूत्रे 'मुनि:' सकाममरणं म्रियते' इत्युक्तं, स च मननानगुनिरिति ज्ञान्येव, ये त्वज्ञानिनस्ते किमित्याहमू.(१६१) जावंतऽविज्जा पुरिसा, सन्चे ते दुक्खसंभवा ।
लुप्पंति बहुसो मूढा, संसारंमि अनंतए। वृ.'यावन्तो' यत्परिमाणा वेदनं विद्या-तत्त्वज्ञानात्मिका न विद्या अविद्या-मिथ्यात्वोपहतकुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यापुरुषाः, अविद्यमाना वा विद्या येषां ते अविद्यापुरुषाः, इह च विद्याशब्देन प्रभूत श्रुतमुच्यते, न हि सर्वथा श्रुताभावः जीवस्य, अन्यथा अजीवत्वप्राप्तेः, उक्तं हि-"सव्वजीवाणंपि य णं अक्खरस्सऽनंतभागो निच्चुघाडितो, यदि सोऽवि आवरिज्जेज्ज तो णं जीवो अजीवत्तणं पावेज्जा" । 'सर्वे' अखिला: 'ते' इत्याविद्यापुरुषा, 'दुक्खसंभव'त्ति दुःखस्य सम्भवो येषु ते दुःखसम्भवाः, यद्वा दुःखं करोति दुःखयति ततो दुःखयतीति दुःखं-पापं कर्म ततः सम्भवः-उत्पत्तिर्येषां ते दुःखसम्भवाः, एवंविधाः, सन्तः किमित्याह-'लुप्यन्ते' दारिद्यादिभिर्बाध्यन्ते बहुशः' अनेकशो 'मूढा' हिताहितविवेचनं प्रत्यसमर्थाः, क्व?-संसरणं-तिर्यग्नरकादिषु भवेषु भ्रमणं संसारः तस्मिन्, कोहशि?'अनन्तके' अविद्यमानान्ते, अनेन चानन्तसंसारिकतादर्शनेन तादृशां पण्डितमरणाभाव उक्तः, अध्ययनार्थापेक्षया त निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयम्।
इह चायमुदाहरण-एगो गोधो दोगच्चेण वाइतो गेहाओ निग्गतो, सव्वं पुहवि हिडिऊण जाहे न किंचि लहति ताहे पुण रवि धरं जतो नियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव देवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघडं भणित-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिज्जं, इत्थीहिं सद्धि भोगे ,जति, जाव पहाए पडिसा-हरति ।
तेन गोहेण सो दिट्टो, पच्छा चितेइ-किं मज्झ बहुएण भमिएण?, एतं चेव ओलग्गामि, सो तेन ओलग्गिओ, आराहितो भणति-किं करेमि? त्ति, तेन भण्णति-तुम्ह पसाएण अहंपि एतं चेव भोगेभुंजामि, तेन भण्णति-कि विज्जं गेण्हसि? उताह विज्जाएऽभिमंतियं धडंगेण्हसि?, तेन विज्जासाहणपुरच्चरणभीरुणा भोगतिसिएण य भण्णति-विज्जाभिमंतियं घडयं देहि, तेन से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं गहाय गतो सगाम, तत्थ बंधूहिं सहवासेहिवि समं जहारुइयं भवणं विगुरुव्वियं, भोगे तेहिं सह भुंजतो अच्छति, कम्मंता य से सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयीभूताः, सोय कालंतरेण अतितोसएण तं घडं खंधे काऊण एयस्स पभावेण अहं बंधुमज्झे पमोयामम आसवपीतो पणच्चितो, तस्स पमाएण सो घडो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org