________________
२१२
उत्तराध्ययन-मूलसूत्रम्-१-६/१६० पडिसेवणाकुसीलो पंचविहो ऊ मुणेयव्वो।। भा.[१३] नाणादी उवजीवति अहसुहुमो अहा इमो मुणेयव्यो।
सातिज्जतो रागं वच्चति एसो तवच्चरणी॥ भा.[१४] एमेव कसायंमिवि पंचविहो होइ ऊ कुसीलो उ।
कोहेणं विज्जाति पउंजए एव मानादि । भा.[१५] एमेव दंसमिवि सावं पण देति ऊ चरितंमि।
मनसा कोहाईणि उ करेइ अह सो अहासुहुमो।। भा.[१६] पढमापढमा चरिमे अचरिम सुहुमे य होंति निगथे।
अच्छवि अस्सबले या अकम्मसंसुद्ध अरहजिनो । वृ. ते च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः, पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनगमविकल्पैःसाध्य भवन्ति, तत्र संयमे तावत् पुलाकबकुशकुशीला: एए तिनिविदोसुसंजमेसु-सामाइते छेओवट्ठावणीए य, कसायकुसीला दोसु-परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः । प्रज्ञप्तिस्त्वाह-कसायकुसीले णं पुच्छा?, सामाइयसंजमे वा हुज्जा, जाव सुहुमसंपरायसंजमे वा हुज्जा, नो अहक्खायसंजमे हुज्जा, नियंठा सिणागया य एए दोऽवि अहक्खायसंमजे" पुलागबकुसपडिसेवणाकुसीला य उक्कोसेणं अभिन्नदसपुव्वधरा कसायकुसौलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ ।
जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, बकुशकशीलानिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतापगतः केवली स्नातक इति सम्प्रदायाभिप्रायः । पज्ञप्त्यभिप्रायस्तु-"पुलाए णं भंते ! केवतियं सुयं अहिज्जेज्जा?, गोयमा ! जहन्नेणं नवमस्स पुव्वस्स तइयं आयारवत्थु, उक्कोसेणं नव पुव्वाइं अहिज्जेज्जा"।
इदानीं प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनस्य च पराभियोगाद्वलात्कारेण अन्यतमत् प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रज्ञप्तिस्तु-"पुलाए णं पुच्छा, जाव मूलगुणे पडिसेवेमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवेमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा" बकुशो द्विविध:- उपकरणबकुशः शरीरबकुशश्च, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः विशेषयुक्तोपकरणकाङ्क्षायुक्तो नित्यं तत्प्रतिकारसेवी भिक्षुरुतकरणबकुशो भवति, शरीराभिष्वक्तचित्तो विभूषार्थं तत्प्रतिकारसेवी शरीरबकुशः। __ प्रतिसेवनाकुशोलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते, प्रज्ञप्तिस्तु"बकुसे णं पुच्छा, जाव नो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए हुज्जा, पडिसेवणाकुसीले जहा पुलाए" कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । __तीर्थमीदानी, सर्वेषां तीर्थङ्कराणां तीर्थेषु भवन्ति, एके त्वाचार्या मन्यन्ते-पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा। लिङ्गमिति लिङ्गं द्विविध-द्रव्यलिङ्गं भावलिङ्गंच, भावलिङ्गं प्रतीत्य सर्वे निर्ग्रन्थलिङ्गे भवन्ति, द्रव्यलिङ्गप्रतीत्य भाज्याः। लेश्याः पुलाकस्योत्तरास्तिस्त्रो लेश्या भवन्ति, बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि, कषायकुशीलस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org