________________
अध्ययनं-५,[नि. २३५]
२०५ रूपस्य च तेष्वसम्भवात्, 'विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते?-भिक्षव:, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यत:-केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधैव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाञ्चित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम्, अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ।। विपमशीलतामेव भिक्षूणां समर्थयितुमाहमू.(१४८) संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा।
गारत्थेहि य सव्वेहि, साहवो संजमुत्तरा ।। वृ. 'सन्ति' विद्यन्ते, एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थ'त्ति सूत्रत्वादगारस्थाः संयमेन-देशविरत्यात्मकेनोत्तरा:-प्रधाना: संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथाऽ चारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु?, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वातेषां, तथा च वृद्धसम्प्रदाय:-एगो सावगो साहुं पुच्छति-सावगाणं साहूणं किमंतरं?, साहुणा भण्णतिसरिसवमंदरंतरं, ततो सो आउलीहूणो पुणो पुच्छति-कुलिंगीणं सावगाण य किमंतरं?, तेन भण्णति-तदेव सरिसवमंदरंतरंति, ततो समासासितो, जतो भणियं
- "देसेक्कदेसविरया समणाणं सावगा सुविहियाणं।
जेसिं परमासंडा सतिमंपि कलं न अग्घंति ॥" तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ।। ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आहमू.(१४९) चीराजिनं निगिणिणं, जडी संघाडि मुंडिणं ।
एयाइपि न तायंति, दुस्सीलं परियागतं ।। वृ. चीराणि च -चीवराणि अजिनं च-मृगादिचर्म चीराजिनं 'निगिनिनं ति सूत्रत्वान्नाग्न्यं 'जडि'त्ति भावप्रधानत्वानिर्देशस्य जटित्वं, सङ्घाटी-वस्त्रसंहतिजनिता 'मुंडिणं ति यत्र शिखाऽपि स्वसमयतश्छिद्यते, ततः प्राग्वत् मुण्डित्वं, 'एतान्यती'ति निजनिजप्रक्रियाविरचितव्रतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, किमित्याह-नैव त्रायन्ते भवादुष्कृतकर्मणो वेति गम्यते, कीदृशम् ?-'दुःशीलं' दुराचारं परियागर्य'ति पर्यायागतंप्रव्रज्यापर्यायप्राप्तम्, आर्षत्वाच्च याकारस्यैकस्य लोपः, यद्वा-'दुस्सीलंपरियागयंति मकारोऽलाक्षणिकः, ततो दुःशीलमेव दुष्टशीलात्मक: पर्यायस्तमागतं दुःशीलपर्यायागतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायालं, ततो न लिङ्गधारणादि विशिष्टहेतुरिति सूत्रार्थः ।। आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरिति?, उच्यते
मू.(१५०) पिंडोलए व दुस्सीलो, नरगाओ न मुच्चइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org