________________
२०४
उत्तराध्ययन-मूलसूत्रम्-१-५/१४५ वृ. 'एतद्' अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यता यन्मरणमुक्तं तदकाममरणं, बालानामेव, तुशब्दस्यैवार्थत्वात्, ‘प्रवेदितं' प्रकर्षेण प्रतिपादितं, तीर्थकृद्गणधरादिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-'एत्तो'त्ति इतोऽकाममरणादनन्तरं सकाममरणं पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत में मम, कथयत इत्युपस्कारः इति सूत्रार्थः । यथाप्रतिज्ञातमाहमू.(१४६) मरणपि सपुन्नाणं, जहा मे तमनुस्सुयं।
विप्पसत्रमनाघायं, संजयाणं वुसीमओ। वृ. मरणपि आस्तां जीवितमित्यपिशब्दार्थः, 'पुण कर्मणि शुभे' इत्यस्माद्धातोः 'उणादयो बहुल' मिति बहुलवचनाद्भावे क्यपि पुण्यम्, उत्प्तं हि
"पुन कर्मणि निर्दिष्टः शुभविशेषप्रकाशको धातुरयम्।
___ भावप्रत्यययोगाद्विभक्तिनिर्देशसिद्धमेतद्रूपम्॥" सह तेन वर्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवतां, किं सर्वमपि?, नेत्याह-'यथा' येन प्रकारेण 'मे' मम, कथयत इति गम्यते, तदित्युपक्षेयः, तत्रोपात्तम् 'अनुश्रुतम्' अवधारितं, भवद्भिरिति शेष:, सुष्ठ प्रसन्न मरणसमयेऽप्यकलुषं कषायकालुष्यापगमान् मनः-चेतो येषां ते सुप्रसन्नमनस: महामुनयस्तेषां ख्यातं-स्वसंवेदनतः प्रसिद्धं सुप्रसन्नमन ख्यातं, यद्वा-'सुप्पसन्नेहि अक्खायं' अत्रच सुष्ठ प्रसन्नै:- पापपङ्कापगमनेनात्यन्तनिर्मलीभूतैः, शेषतीर्थकृद्भिरिति गम्यते, आख्यातं।
पठ्यते च विप्पसण्णमनाघायं'ति, तत्र च विशेषेण विविधैर्वा भावनादिभिः प्रकारैः प्रसत्रामरणेऽप्पपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्सम्बन्धि मरणमप्युपचारा-द्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलिखितशरीरतया यस्मिस्तदनाघातं, केषां पुनरिदम्?, उच्यते-'संयतानां' समिति-सम्यग् यतानां-पापोपरतानां, चारित्रिणामित्यर्थः, 'वुसीमतो'त्ति, आपत्त्वाद्वश्यवतां वश्य इत्यायत्तः, स चेहात्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते येषां ते अमी वश्यन्त: तेषाम् अयमपर: सम्प्रदायार्थः-वसंति वा साहुगुणेहिं वुसीमंतः, अहवा वुसीमा-संविग्मा तेर्सि'ति एतच्चार्थात् पण्डितमरणमेव, ततोऽयमर्थःयथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति, न तथाऽपुण्यप्राणिनाम् । 'अन्ते समाहिमरणं अभव्वजीवा न पावेंति'त्ति वचनात्, विशिष्टयोग्यताभाजामेव तत्प्राप्तिसम्भवादिति मू.(१४७) न इमं सब्बेसु भिक्खूसुं, न इमं सब्वेसु गारिसु।
नानासीला य गारत्था, विसमसीला य भिक्खूणो।। वृ. 'ने' त्यवधारणफलत्वाद्वाक्यस्य नैव इद'मिति पण्डितमरणं 'सव्वेसु भिक्खूसु'त्ति सूत्रत्वात् सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामितियावत्, किन्तु केषाञ्चिदेव परोपचितपुण्यानुभाववतां भावभिक्षूणां, तथा च गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सव्वेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणामेव तत्सम्भवात्, तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नानाअनेकविधं शीलं-व्रतंस्वभावोवा येषां ते नानाशीला: 'अगारस्था' गृहस्थाः तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात्, सर्वविरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org