SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ उत्तराध्ययन-मूलसूत्रम्-१-५/१२८ आत्मप्रदेशो ह्येकैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः, संवेष्टितः, तथा च वृद्धव्याख्या-इदाणी पदेसगं-अनंताणंता आउगकम्मपोग्गला जेहिं एगभेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः ॥ सम्प्रति कति म्रियन्ते एकसमयेनेतिद्वारमाहनि. [ २२७] दुन्नि व तिन्नि व चत्तारिपंच मरणाइ अवीइमरणंमि । ___ कइ मरइ एगसमयंसि विभासावित्थरं जाणे॥ नि.[२२८] सव्वे भवत्थजीवा मरंति आवीइअंसया मरणं । ___ ओहिं च आइअंतिय दुनिवि एयाइ भयणाए।। नि.[ २२९] ओहिं च आइअंतिअ बालं तह पंडिअंच मीसं च। छउमं केवलिमरणं अन्नुन्नेणं विरुझंति ॥ वृ.द्वेवा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शषः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया च तद्ययादिभेदपरिकल्पनेत्याह, कति म्रियन्त एक समये?, इत्ति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषा-व्याख्या विविधैर्वा प्रकारैर्भाषणं विभाषा-भेदाभिधानं तया विस्तर:-प्रपञ्चस्तं विस्तरंजानीहि जानीयाद्वा, निगमनमेतत्, प्रस्तुतमेवार्थं प्रकटयितुमाह'सर्वे' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह-'भवस्थजीवाः' भवन्त्यस्मिन् कर्मवशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्था: तेच ते जीवाश्चेति विशेषणसमासः, म्रियन्ते, आवीचिकमवीचिकं वा मरणमाश्रित्येति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन नियन्ते 'सदा' सर्वकालं, ओहिंच'त्ति अवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'आइयंतिय'न्ति आत्यन्तिकमरणंच, द्वेअप्येते भजनया' विकल्पनया, किमुक्तं भवति?-यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःक्षयसमय एव तयोः सम्भवान सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम्, अनेनावीचिमरणस्य सदाभावेन लोकेमरणत्वेनाप्रसिद्धः अविवक्षायां हेतरुक्त इति भावनीयं।। सम्प्रति 'दोन्निवि' इत्यादि व्यक्तीकरोति-'ओहिं च आइयंतिय'त्ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'बालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, 'पण्डितं च' पण्डितमरणं, 'मिश्रंच' बालपण्डितमरणं च, चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिज्ञेङ्गिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भवात्, तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालमरणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आह-बलन्मरणान्तःशल्यमरेण अपि बालमरणभेदावेव, यत आगमः- "बालमरणे दुवालसविहे पन्नत्ते, तंजहा-बलायमरणे वसट्टमरणे असंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभक्खणे सत्थोवहणणे वेहाणसे गिद्धपढे'त्ति, एतेषुच यद्यपि गिरिपतादिपटकस्य वैहायस एवान्त र्भावः तथापि वलन्मरणान्तःशल्यमरणयोः प्रक्षेपे कथं नोक्तसङ्घयाविरोधः?, उच्यते, इहाविरतस्यैव बालमरणं विवक्षितम्। उक्तं हि-'अविरयमरणं बालमरणं' अनयोस्त्वेकत्र संयमस्थानेभ्यो निवर्तनम्, अन्यत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy