________________
१९२
उत्तराध्ययन-मूलसूत्रम्-१-५/१२८ इत्यागमवचनाच्चतुर्वीधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्गयते-प्रतिनियतप्रदेश एव चेष्टयते अस्यामनशनक्रियायामितीङ्गिनी, पादैः-अधःप्रसप्पिमूलात्मकैः पिबति पादपो-वृक्षः, उपशब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगमं, किमुक्तं भवति ?-यथैव पादपः क्वचित् कथञ्चिनिपतितः सममसममिति चाविभावयत्रिश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपाङ्ग वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृत
निच्चल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं।
एयं पादोवगमं नीहारि वा अनीहारि॥१!! पातोवगमं भणियं सम विसमो पायवोव्व जह पडितो।
नवरं परप्पतोगा कंपेज्ज जहा फलतरूव्व ॥२॥" चः समुच्चये, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि, अत एवाह-त्रीणि मरणानी, एतस्वरूपं च यथेदं विधेयं यच्चात्र सपरिकर्म अपरिकर्म च इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति नियुक्तिकृता नोक्तम्। द्वारनिर्देशाच्चावश्यं किञ्चिद्वाच्यमितिमत्वेदमाह-'कण्णस'त्ति सूत्रत्त्वात्, कनिष्ठं-लघु जघन्यमितियावत्, मध्यम-लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमृत्कृष्टमित्यर्थः, एषां द्वन्द: तत एतानि, धृतिः-सयमं प्रति चित्तस्वाथ्यं संहननंशरीरसामर्थ्यहेतुः वज्र ऋषभनाराचादि ताभ्यां, प्राकृतत्त्वाच्चैकवचननिर्देशः, समाहाराश्रयणाद्वा, तुशब्दात्सपरिकापरिकर्मातादिभिश्च विशेषैर्विशिष्टानि-विशेषवन्ति, इदमुक्तं भवति-यद्यपि त्रितयमप्येतत्
“धीरेणऽवि मरियव्वं कापुरिसेणवि अवस्स मरियव्यं ।
तम्हा अवस्समरणे वरं खु धीरत्तणे मरिउं॥ संसाररंगमज्झे धीबलसंनद्धबद्धकच्छातो।
हंतूण मोहमल्लं हरामि आराधनपडागं ॥२॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियभुयारं ।
पच्छा निच्छयपत्थं उवेमि अब्भुज्जयं मरणं ।।३।।" इति शुभाशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्यापि समानं,
। "एवं पच्चक्खाणं अनुपालेऊण सुविहिओ सम्म।
वेमाणितो व देवो हवेज्ज अहवाऽवि सिज्झिज्जा॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठात्वादिस्तद्विशेष उच्यते, तथाहि- भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति, यत उक्तम्
"सव्वावि य अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा ।
सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, तत्र प्राक् पादपोपगमनादेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org