________________
१९०
उत्तराध्ययन-मूलसूत्रम्-१-५/१२८ प्रत्यवन्ध्यतया, सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेषां गौरवपङ्कमग्नानामिति गाथाद्वयार्थः । अस्यैवात्यन्तपरीहार्यतां ख्यापयन् फलमाहनि.[ २२०] एयं ससल्लमरणं मरिऊण दुरंतंमि।
सुइरं भमंति जीवा दीहे संसारकंतारे।। वृ. 'एतद्' उक्तस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्ब्यत्ययाद्वा एतेनसशल्यमरणेन 'मृत्वा'त्यक्त्वा प्राणान्, के? -जीवा इति सम्बन्धः, किम्?-'सुचिरं भ्रमन्ति' बहुकालं पर्यटन्ति, क्व?-संसार: कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टङ्कः, कोशि? महद्भयं यस्मिन्तन्महामयं तस्मिन्, तथा दुःखेनान्त:--पर्यन्तो यस्य तद्दुरन्तं तस्मिन्, तथा 'दीर्घ' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्तव्यमेवेति भाव इति गाथार्थः ।। नि.[ २२१] मोत्तुं अकम्मभूमगनरतिरिए सुरगणे अनेरइए।
सेसाणं जीवाणं तब्भवमरणं तु के सिंचि॥ वृ. 'मुक्त्वा ' अपहाय, कान् ?-'अकम्मभूमगरनतिरिए'त्ति सूत्रत्वात् अकर्मभूमिजाश्च ते देवगुरूत्तरकुर्वादिषूत्पन्नतया नरतिर्यञ्चश्च अकर्मभूमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भावनन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च' सुरनिकायान्, किमुक्तं भवति?-चतुर्निकायवर्तिनोऽपि देवान्, निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भावनन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम्' एतदुद्धरितानां कर्मभूमिजनरतिरश्चां 'जीवानां प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषख्यापकः, असङ्खयेयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु केषाञ्चित्' तद्भावोत्पादानुरूपमेवायुः कर्मोपचिन्वतामिति गाथार्थः ।। अत्रान्तरे प्रत्यन्तरेषु'मोत्तूण ओहिमरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते ।।
सम्प्रतिबालपण्डितमिश्रमरणस्वरूपमाहनि.[२२२] अविरयमरणं बालं मरणं विरयाण पंडियं बिति ।
जाणाहि बालपंडियमरणं पुन देसविरयाणं ॥ वृ.विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरता: तेषां-मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दशां वा मरणमविरतमरणं-बालमरणमिति ब्रुवत इति सम्बन्धः, तथा 'विरतानां' सर्वसावधनिवृत्तिमभ्युपगतानां मरणं पण्डित'मिति प्रक्रमात्पण्डितमरणम्, 'बिति'त्ति ब्रुवते तीर्थकरगणधरादयः, जानीहि 'बालपण्डितमरण'मिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेविरता देशविरतास्तेषामिति गाथार्थः । एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाहनि.[२२३] मनपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा।
छउमत्थमरणमेयं केवलिमरणं तु केवलिणो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org