________________
अध्ययनं-५,[नि. २१६ ]
१८९ द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयं । पश्चार्द्धनाऽऽत्यन्तिकमरणमाहनि.[ २१६-२] एमेव आइयंतियमरणं नवि मरइ ताइ पुनो।
वृ.'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम्'नमि मरइ ताइ पुनो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैय तानि द्रव्यादीनि पुनर्धियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभव म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाद्विशतिभेदानीति गाथार्थः ।। साम्प्रतं वलन्मरणमाहनि.[२१७] संजमजोगविसन्ना मरंति जे तं वलायमरणं तु ।
इंदियविसयवसगया मरंति जे तं वसट्टे तु ॥ वृ. संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णा: संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं चमोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलता-संयमानिवर्तमानानां मरणं वलन्मरणं, तुविशेषणे, भग्नव्रतपरिणतीनां व्रतिनामेवैतदिति विशेषयति, अन्येषां हिसंयमयोगानामेवासम्भवात् कथं तद्विषादः? तदभावे च तदिति ! पश्चार्द्धन वशार्तमाह-इन्द्रियाणां-चक्षुरादीनां विषयाः-मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगता: स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तद्दशार्तमरणं, कथञ्चिद्रव्यपर्यायभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः । अन्तःशल्यमरणमाहनि.[ २१८] लज्जाइ गारवेण य बहुस्सुयमएण वाऽविदुच्चरिअं।
जे नं कहंति गुरूणं न हु ते आराहगा हुंति ।। नि.[२१९] गारवपंकानिबुड्डा अइयारं जे परस्स न कहंति ।
दंसणनाणचरित्ते ससल्लमरणं हवइ तेसि ।। वृ.तत्र 'लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च सातद्धिरसगौरवात्मकेन, मा भून्ममालोचनाहमाचारार्यमुपसर्पतस्तद्वन्द्वनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, बहुश्रुतमदेन वा बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्प-- मुद्धरिष्यति?, कथं चाहमस्मै वन्दनादिकं दास्यामि? अपभ्राजना हि इयं मम इत्यभिमानेन, अपि: पूरणे, ये गुरुकाणा 'न कथयन्ति' नालोचयन्ति, केषाम्?, 'गुरुणाम्' आलोचनाहाणामाचार्यादीनां, किंतद्?-'दुश्चरितं' दुरनुष्ठितम् इति सम्बन्धः, 'नहु' नैव'ते' अनन्तरमुक्तरूपा आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्कइव कालुष्यहेतुतया तस्मिन् निबुड्डा-इति प्राकृतत्वानिमग्ना इव निमग्नाः तक्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम्, 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, किंविषयम्? इत्याह'दर्शनज्ञानचारित्र' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषयं समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org