________________
उत्तराध्ययन-मूलसूत्रम्-१-३/११५ निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह
"जागरिया धम्मीणं अहमीणं च सुत्तया सेया।
वच्छाहिवभगिणीए अकहिंसु जिनो जयंतीए।" विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हि परगुणदोषोदीरणादिभिः, पापमेवोपार्जयति, अत एवाह वाचक:
"यावत् परगुणदोषपरिकीर्त्तने व्यापृतं मनो भवति ।
___ तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ।।" इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्तन्त इति तेषामेवातिदुष्टता-ख्यापकं, महासामर्थ्या अपि ह्येतद्वशादुपघातमाप्नुवन्ति, आह च वाचक:-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मः, तद्यथा-गारगर्यः सत्यकि.कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपी"त्यादि । एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मानि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति हृदयम, अत एव न भावप्रमादः पृथगुक्तः । उपसंहारमाह-'इती'त्यनन्तरमुपदशितः पञ्चविधः-पञ्चप्रकार: 'एष' इति इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमाद: अप्रादश्च तदभावरूप: पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः । प्रस्तुतयोजनामाहनि.[१८१] पंचविहो अपमाओ इहमज्झयणंमि अप्पमाओ य।
वन्निज्जए उ जम्हा तेन पमायप्पमायंति ।। वृ.पञ्चविधः चशब्दस्तद्गतभेदसूचक: प्रमादः 'इह'अस्मिन्नध्ययने अप्रमादश्च पञ्चविधो वर्ण्यते, तुशब्दोऽन्याध्ययनेभ्यो विशेषं द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः ।। इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रनिक्षेपावसरः, स च सूत्रे सति भवति, तच्चेदम्मू.(११६) असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं।
एवं वियाणाहि जने पमत्ते, कन्नू विहिंसा अजया गर्हिति ।। वृ.संस्क्रियत इति संस्कृतं न तथा शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात्, किं तत् ?,-'जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादिः, किमुक्तं भवति?-यदीदं कथञ्चित् संस्कृर्तुं शक्यं स्यात् चतुरङ्गयवाप्तावपि न प्रमादो दोषायैव स्यात्, यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमितिमा प्रमादं कृथाः, कृतः पुनरसंस्कृतम् ?-जराय-वयोहानिरूपया उपनीतस्य प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो हिजरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेतौ, यस्मान अस्ति-विद्यते त्राणं-शरणं येन मृत्युतो रक्षा स्यात्, उक्तं च वाचकैः
___"मङ्गलैः कौतुकैर्योगैविद्यामन्त्रैस्तथौषधैः ।
न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org