________________
१५०
उत्तराध्ययन-मूलसूत्रम्-१-३/९७ कम्मा नानाविहा कट्ट, पुढो विस्सभिया पया। वृ.'सम्' इति समन्तात् आपन्नाः-प्राप्ताः समापन्नाणं इति वाक्यालङ्कारे, क्वेत्याह-संसारे, तत्रापि क्व?-नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रासु-अनेकाभिधानास जायन्ते जन्तव आस्विति जातयः-क्षत्रियाद्याः तासु, अथवा जननानि जातयः ततो जातिषुक्षत्रियादिजन्मसु नाना-हीनमध्यमोत्तमभेदेनानेकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाहक्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य 'पुढो'त्ति पृथग भेदेन, किमुक्तं भवति? -एकैकशः, 'विस्संभिय'त्ति विन्दोरलाक्षणिकत्वाद् विश्व-जगद् बिभ्रति-पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च
“नस्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽपि ।
जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता ।।" इदमुक्तं भवति-अवाप्यापि मानुषत्वं स्वकृतविचित्रकर्मानुभावतः पृथग्जातिभागिन्य एव भवन्ति, का:-'प्रजा:' जनसमूहरूपाः, तदनेन प्राप्तमानुषत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिन्नासु नानागोत्रासु-अनेककुलदोयुट्पलक्षितासु जातिषु-देवाधुत्पत्तिरूपासु समापन्नाः-सम्प्राप्ता वर्त्तन्त इति गम्यते, नेति प्राग्वत्, ‘विश्रम्भिताः' सञ्जानविश्रम्भाः सत्यः प्रक्रमात्कर्मस्वेव तद्विपाकदारुणत्वापरिज्ञानात्का:?, प्रजायन्ते इति प्रजाः-प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तामिति सूत्रार्थः ।। मू.(९८)
एगया देवलोएसु, नरएसुऽवि एगया।
एगया आसुरे काये, आहाकम्मेहिं गच्छद। वृ. 'एकदा' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोका:-उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृत्युदयविषयतथा लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति-योग्यतयाऽऽह्वयन्तीति नरकाः तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा' तथाविधभावनाभावितान्त:करणावसरे, असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, बालतपः प्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम्, अथवा देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम्, इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'आहाकम्मेहि'ति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं ?-स्वयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गुत्यनुरूपचेष्टितैः 'गच्छति' याति, इति सूत्रार्थः । तथामू. (९९) एगया खत्तिओ होइ, तओ चंडालबुक्कसो।
तओ कीडपयंगो य, तओ कुंथू पिवीलिया। वृ. एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले खत्तिय'त्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्त्रायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरंतको वा प्राणी 'चण्डालः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org