________________
अध्ययनं - ३, [ नि. १७८ ]
तस्य त्वग्रहणं युक्तं यः स्याज्जिन इव प्रभुः ॥ "
स च प्रथमसंहनन एव, न चेदानीं तदस्तीत्यादिकया प्रागुक्तया च युक्त्योच्यमानो ऽसौ कम्मोदयेण चीवराइयं छड्डेत्ता गतो, तस्स उत्तरा भइणी, उज्जाने ठियस्स वंदिया गया, तं च दण तोएवि चोवरातियं सव्वं छड्ढियं, ताहे भिक्खाए पविट्टा, गणियाए दिट्ठा, मा अम्ह लोगो विरज्जिहित्ति उरे से पोत्ती बद्धा, सा नेच्छति, तेन भणियं- अच्छउ एसा तव देवयादिन्ना । तेन दो सीसा पव्वाविया - कोडिनो कोट्टवीरो य, तओ सीसाण परंपरफासो जातो ॥ एतदर्थोपसंहारके भाष्यगाथे
भा. [१]
उहा पन्नत्तं बोडियसिव भूइउत्तराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ बोडियसिवभूइओ बोडियलिंगस्स होइ उप्पत्ती । कोडिनकोट्टवीरा परंपराफासमुप्पन्ना ॥
भा. [ २ ]
वृ. 'ऊहया' स्वावितर्कात्मिकया 'पज्ञप्तं' प्ररूपितं, बोटिक श्वासौ चारित्रविकलतया मुण्डमात्रत्वेन शिवभूतिश्च बोटिक शिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् 'इदम्' अनन्तरोक्तं यत्रास्योत्पत्तिस्तदाह- मिथ्यादर्शनम् 'इणमो 'त्ति आर्षत्वादिदं रथवीरपुरे समुत्पन्नम् || बोटिक शिवभूतेर्बोटिकलिङ्गस्य भवत्युत्पत्तिः, पठ्यते च- 'बोडियलिङ्गस्स आसि उप्पत्ती, ' तत्र च कौण्डिन्यकोट्टवीरौ परम्परां - अव्यवच्छिशिष्यप्रशिष्यसंतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्शं यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोट्टवीराभ्यां बोटिकसन्तानस्योत्पत्तिरुक्ता भवतीति गाथाद्वयार्थः । इयता ग्रन्थेन श्रद्धादुर्लभत्वमुक्तम्, अस्याश्च सम्यक्त्वरूपत्वात् सम्यक्त्वपूर्वकत्वाच्च संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेवेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य च व्याख्याने चतुरङ्गेभ्यो हितं तत्स्वरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानैवेति नियुक्तिकृता नोपदर्शिता । गतो नामनिष्पनिक्षेप:, सम्प्रति सूत्रानुगमेऽस्स्वलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चचत्तारि परमंगाणि, दुल्लहाणिह जंतूणो । मानुसतं सुई सद्धा, संजमंमि य वीरियं ॥
मू. (९६)
Jain Education International
१४९
वृ. 'चत्वारि' चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकार - णत्वेन परमाङ्गनि 'दुर्लभानि' दुःखेन लभ्यन्त इतिकृत्वा दुष्प्रापाणि 'इह' अस्मिन्संसारे, कस्य ? - जायत इति जन्तुस्तस्य देहिन इत्यर्थः, पठ्यते च - 'देहिन' इति, कानि पुनस्तानि ? - मनसि शेते मानुषः, अथवा मनोरपत्यमिति वाक्ये "मनोर्जातावञ्यतौ षुक् च" इत्यञि प्रत्यये पुगागमे च मानुषस्तद्भावः मानुषत्वं मनुजभावः, 'श्रवणं' श्रुतिः, सा च 'अर्धप्रकरणादिभ्यः . सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते' इति न्यायाद्धर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, 'संयमे' आश्रवविरमणाद्यात्मनि, चः समुच्चये भिन्नक्रमः, ततो विशेषेणेरयति - प्रवर्त्तयति आत्मानं तासु तासु क्रियास्विति वीर्य्यं च सामर्थ्यविशेष इति सूत्रार्थः ॥
तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह
भू. (९७)
समावत्राण संसारे, नानागोत्तासु जाइसु ।
For Private & Personal Use Only
-
www.jainelibrary.org