SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३, [ नि. १६८ ] १३३ द्वितीयादीनामपि पूरणत्वाद्, अन्यथा तथा तथा व्यपदेशानुपपत्तेः, विवक्षातोऽपि न, यतोऽसौ स्वस्याशेषपुरुषाणां वा ?, यद्यशेषपुरुषाणां नेयं नियता, न हि सर्व एव भयदभिमतमेकं पूरणमाचक्षते, नापि स्वस्य, यतोऽस्या अपि कुतो नियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियमत: ?, 'एगे भंते! जीवप्पएसे जीवत्ति वत्तव्वं सिया ! इत्यादिनिरूपणायां पर्यन्तभवनात्, तन्नियमो ऽपि कुतो ?, विवक्षानियमात्, एवं सति चक्रकाख्यो दोष:, तथाहि विवक्षानैयत्य मन्त्यत्वात्, तन्नैयत्यं चं निरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्या - विनाभावित्वे तदविनाभावित्वमपि बलादापततीति सकलप्रदेशाविनाभावित्वात्तदात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते ?, यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति ?, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिप्रतिवादिनोरिष्टत्वात्, अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकविरहतो वा ?, यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानुमनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायकासत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम्, एकस्य तु तदभावो, यदुक्तम् "जुत्तो य तदुवयारो देसूणे न उ पएसमेत्तंमि । जह तंतूणंमि पडे पडोवयारो न तंतुंमि ॥" J नापि परस्परसहायकासत्त्वात्, यतस्तत्किं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे वा ?, यदि न्यूनत्वे तत्कि शक्तितोऽवगाहनातो वा ? न तावच्छक्तिः, एकपटतन्तूनामिवैकात्मप्रदेशानां तन्त्र्यूनत्वायोगात्, नाप्यवगाहनातः, सर्वेषमाप्यमीपामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात्, तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगामाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतः स्फुटमेवागमवचनं "कसिणे डिपुत्रे लोगागासपएस तुल्लपएसे जीवत्ति वत्तव्वं सिय" त्ति, ततश्च भवन्सर्वस्वदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वस्वदेशेषु, तद्वदात्मा तदात्मकः ॥ प्रयोगश्च - यो यावत्स्वप्रदेशाविनाभावी स तदात्मको, यथा घटः, सकलस्वप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न ठाइ, ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्भावभावनाहिंमिच्छत्ताभिनिवेसेहिय अप्पाणं परं उभयं च वुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरीनाम समणोवासतो, तप्पमुहा य अत्रेऽवि निग्गया आगया साहुणोत्ति, सोऽवि जाणत्ति - जहा एए निन्हगत्ति, पच्छा सो पन्नवेति, सोऽवि जाणति, तथावि माईट्ठाणेणं गतो धम्मं सुणति, सो ते न विरोहेति पनवेहामि णं, एवं सो कम्मं पडिच्छंतो जाव तस्स संखडी विउला विच्छिन्ना जाया, ताहे ते निमंतिया, तुब्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं ते आगया, ताहे तस्स निविट्ठस्स तं विउलं खज्जयं नीनियं, ताहे सो एक्केक्कातो खंड खडं च देति, कूरस्स कुसणस्स वत्थस्स, ते जाणंति - एस पच्छा पुणो दाहिति, पच्छा पाए पडितो, सयणं च भणति - वंदेह, साहू पडिलाभिया, अहो अहं धन्नो ! जं तुब्भे ममं चेव घरमागया, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy