________________
१०६
उत्तराध्ययन-मूलसूत्रम्-१-२/८४ च-तंतयं 'ति तत्र तन्त्रं-वेमविलेखन्याञ्छनिकादि तस्माज्जातं तन्त्रजम्, उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः-निभित्सिताः तृणर्जिताः, किमुक्त भवति यद्यति तृणैरत्यन्तविलिखितशरीरस्य रविकिरणसम्पर्कसमुत्पत्रस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि
___ 'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित्, दह्यन्ते नरकाग्निना ॥१॥
अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम्। शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ।।२।।
क्षारदग्धशरीराश्च, मृगवेगोत्थिताः, पुनः । असिपत्रवनं यान्ति, च्छायायां कृतबुद्धयः ।।३।।
शक्त्यष्टिप्रासकुन्तैश्च, खङ्गतोमरपट्टिशैः ।
छिद्यन्ते कृपापास्तत्र पतद्भिर्वातकम्पितैः ।।४।।' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं?, भूयांश्च लाभ: स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्पया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेतं चैतत, स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्ते ऽपीति सूत्रार्थः ।।
अत्र संस्थारद्वारमनुसरन् 'तिउला हवइ वेण'त्ति सूत्रसूचितमुदाहरणमाहनि.[११६] सावत्थीइ कमारो भद्दो सो चारिओत्ति वेरज्जे ।
खारेण तच्छियंगो तणफाससपरीसहं विसहे॥ वृ. श्रावस्त्यां कुमारो भद्रः स 'चारिक:' चर इति वैराज्ये क्षारेण तक्षिताङ्गः तृणस्पर्शपरीषहं 'विसहे'त्ति विपहते, स्मेति विशेष इति गाथार्थः ।। भावार्थस्तु सम्प्रदायावसेय, स चायम्
सावत्थीए नयरीए जियसत्तू रन्नो पुत्तो भद्दो नाम, सो निविण्णकामभोगो तहारूवाणं थेराणमंतिते पव्वतितो, कालेण य एगल्लविहारपडिम पडिवनो, सो विहरंतो वेरज्जे चारिउत्तिकाऊण गहिओ, सो य पंतावेऊण खारेण तच्छिओ, सो दब्भेहिं वेढिऊण मुक्को, सो दब्भेहिं लोहियसंमीलिएहिं दुक्खाविज्जतो सम्म सहइ।। एवं शेषसाधुभिरपि सम्यक् सोढव्यः तृणस्पशपरीषह: ।। तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पात् स्वेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाहमू. (८५) किलिन्नगाए पंकेणं, मेहावी व रएण वा।
प्रिंसु वा परितावेणं, सायं नो परिदेवए। वृ. क्लिनमनेकार्थत्वाद्धातूनां निचितं पाठान्तरत: क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः क्लिष्टगात्रो वा, मेधावी
"वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ।
वोकंतो होइ आयारो, जढो हवइ संजमो॥" इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुन: क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह'पङ्केन' वा स्वदाईमलरूपेण 'रजसा' वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'घिसुव' त्ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः-समन्तात्तापः परितापस्तेन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org