________________
९९
अध्ययनं-२,[ नि. १०९]
वृ.'अक्कोसेज्ज' त्ति आक्रोशेत-तिरस्कुर्यात् 'परः' अन्यो धर्मापेक्षया धर्मबाह्य आत्मव्यतिरिक्तो वा 'भिक्षु' यति, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति?, 'न तेसिं' ति सुपो वचनस्य च व्यत्ययान तस्मै 'प्रतिसज्ज्वलेत्' निर्यातने प्रतिभूतश्चाक्रोशदानतः सज्वलते, तनिर्यातनाथ देहदाहलौहित्यप्रत्याक्रोशाभिधातादिभिरग्निवन्न दीप्येत, सज्ज्वलनकोपमपि न कर्यादिति सज्ज्वले दित्युपादानं, किमेवमुपदिश्यत इत्याह-'सदृशः' समानो भवति, सज्ज्वलनिति प्रक्रमः, केषां! 'बालानाम्' अज्ञानां, तथाविधक्षपकवत्, यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम्, अन्यदैकेन धिगजातिना सह योद्धमारब्धः, तेन च बलवता क्षुत्क्षामशरीरो भुवि पातित: ताडितश्च, रात्रौ देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततश्चासौ देवतयाऽभिहितो-भगवन् ! किं मयाऽपराद्धं ?, स प्राह-न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं, सा चावादीत्- मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रवणोऽयं चधिरजातिरिति, यत: कोपाविष्टौ द्वावपि समानौ सम्पत्राविति, ततः सति प्रेरणेति प्रतिपन्न क्षपकेणेति । उक्तमेवार्थं निगमयितुमाह-'तम्ह'त्ति यस्मात्सदृशो भवति बालानां तस्माभिक्षुर्न सज्ज्वलेदिति सूत्रार्थ: 14 कृत्योपदेशमाहमू. (७४) सोच्चा णं फरुसा भासा, दारुणे गामकंटए।
तुसिणीओ उवेक्खिज्जा, न ताओ मनसी करे। वृ. 'श्रुत्वा' आकर्ण्य, णमिति वाक्यालङ्कारे 'परुषाः' कर्कशाः 'भाषा' गिरो दारयन्ति नन्दसत्त्वानां संयमविषयां धृतमिति दारुणा: ताः, ग्रामः- इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टका:- प्रतिकूलशब्दादयः, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्गप्रवृत्तिविघ्नहेतुतया च, तदेकदेशत्वेन परुषभाषा अपि तथोक्ताः, भाषाविशेषणत्वेऽपि चात्राविष्टलिङ्गत्वात्पुंल्लिङ्गता, 'तूष्णीक:' तूष्णीशीलो न कोपात् प्रतिपरुषभाषी, एवंविधश्च जो सहइ हु गामकंटए अक्कोसपहारतज्जणाओ य'त्ति इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत्, प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्, तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः । इदानीं मुद्गरद्वारं व्याचिख्यासुः 'सुच्चा ण'न्ति सूत्रसूचितमुदाहरणमाहनि.[११०] रायगिहि मालगारो अज्जुणओ तस्स भज्ज खंदसिरी ।
मुग्गरपाणी गोट्ठी सुदंसणो वंदओ नीइ।। वृ. राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्दश्रीः मुद्गरपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'निरेति' वन्दनार्थं निर्गच्छतीति गाथाक्षरार्थः ।। भावार्थस्तु सम्प्रदायादवगम्यः, स चायम्-रायगिहे नयरे अज्जुनगो नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी नामा, तस्स रायगिहस्स नयरस्स बहिया मोग्गरपाणी नाम जक्खे अज्जुनगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चेव जक्खो । अन्नया खंदसिरि भत्तं तस्स भत्तारस्स नेउं गया, अग्गाई पुप्फाई घेत्तुं घरंगच्छति, मोग्गरपाणिघरए य ट्ठियाए दुल्ललियाए गोट्ठीएहिं छहिंजणेहिं दिट्ठा, ते भणंतिएसा अज्जुनमालागारस्स भज्जाऽपडिरूवा, गिण्हामो णं, तेहिं सा गहिया, छवि जना तस्स जक्खस्स पुरतो भोगे भुंजंति, सोऽवि मालागारो निच्चकालमेव अग्गेहिवरेहिं पुष्फेहिंजक्खं अच्चेइ, अच्चिउकामो ततो आगच्छइ, ताए ते भणिया-एसो मालागारो आगच्छति तो तुब्भे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org