________________
९०
दशवैकालिक-मूलसूत्र-३/-/१७ एसो भावायारो पंचविहो होइनायत्रो॥ नि.[१८३] निस्संकिय निक्कंखियनिव्वतिगिच्छा अमूढदिट्ठी ।
उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ॥ नि.[१८४] अइसेसइड्डियायरियवाइधम्मकहीखमगनेमित्ती।
विज्जारागायणसंयमा य तित्थ पभाविति।। नि.[१८५] काले विनए बहुमाणे उवहाणे तहय अनिण्हवणे।
वंजणअत्थत्तदुभए अट्ठविहो नाणमायारो॥ नि.[१८६] पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहि य गुत्तीहिं।
एस चरित्तायारो अविहो होइ नायव्यो।। नि.[१८७] बारसविहम्मिवि तवे सन्भिंतरबाहिरेकुसलदिढे!
___ अगिलाइ अनाजीवी नायव्वो सो तवायारो। नि.[१८८] अनिगृहियबलविरियो परक्कमइ जो जहुत्तमाउत्तो।
झुंजइ अजहाथामं नायव्यो वीरियायारो।। वृ.दर्शनज्ञानचारित्रदिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तच्च क्षायापशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचारइत्येवं शेषेष्वपि योजनीयं, भावार्थं तु वक्ष्यति-एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इतिगाथाक्षरार्थः । अधुना भावार्थ उच्यतेतत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाह गाथा'निस्संकी'त्यादि, निःशङ्कितइत्यत्रशङ्काशङ्कितं निर्गतंशङ्कितं यतोऽसौनिःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदंपरिकल्पितं भविष्यतीति, न पुनरालोचति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्माद्यपेक्षया प्रकृष्टज्ञानगोचरत्वातए तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तञ्च
"बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम्।
अनुग्रहार्थतत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥" दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च नि:शङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचारणात् तत्प्रभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कायति । __ तथा निष्काङ्कितो-देशसर्वकाङ्करहितः, तत्र देशकासा एकं दर्शनं काङ्गति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयतिषड्जीवनिकायपीडामसत्प्ररूपणांच, उदाहरणं चात्रराजामात्यौ यथाऽऽवश्यक इति २।
विचिकित्सा-मतिविभ्रम: निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौनिर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीबलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org