________________
दशवैकालिक - मूलसूत्र - २/- /१६
८८
चक्षते - संबुद्धा: सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवधभीरव इति, किं कुर्वन्ति ? - 'विनिवर्तन्ते भोगेभ्यः ' विविधम्- अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन (वि) निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह यथाऽसौ 'पुरुषोत्तमः ' रथनेमिः । आह- कथं तस्य पुरुषोत्तमत्वं, यो हि प्रब्रजितोऽपि विषयाभिलापीति ?, उच्यते, अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाहदशवैकालिक नियत श्रुतमेव, यत उक्तम्-
'नायज्झयणाहरणा इसि भासियमो पइन्नयसुया य । एए होंति अनियया निययं पुण सेसमुस्सन्नं ॥'
तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति ?, उच्यते एवम्भूतार्थस्यैव नियत श्रुतेऽपि भावाद्, उत्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीतिन स्वमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नयाः पूर्ववदिति ॥
अध्ययनं २ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे द्वितीय अध्ययनं सनिर्युक्तिः सवृत्तिः समाप्तम्
अध्यदनं ३ क्षुल्लिकाचारकथा
वृ- व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानीं क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्त, इह तु सा धृतिराचारे कार्या नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तञ्च
'तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥"
इत्यनेनाभिसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे क्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लकनिक्षेपः कार्यः, आचारस्य कथायाश्च, महदपेक्षया च क्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव महदभिधित्सुराह
नि. [१७९]
नि. [१८०]
नामंठवणादविए खेत्ते काले पहाण पइभावे । एएसि महंताणं पडिवक्खे खुड्डया होंति ।। पइखुड्डुएण पगयं आयारस्स उचउक्कनिक्खेवो । नामवणादविए भावायारेय बोद्धव्वे ॥ नामणधावणवासणसिक्खावणसुकरणाविरोहीणि।
नि. [१८१]
दव्वाणि जाणि लोए दव्वायारं वियाणाहि ।।
वृ- नाममहन्मदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः, क्षेत्रमहल्लोकालोकाकाशम्, कालमहानतीतादिभेदः सम्पूर्ण: काल: प्रधानमहत्रिविधम्- सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानां तीर्थकरः प्रधानः चतुष्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org