________________
अध्ययनं-१, उद्देशकः - [नि.१४५] मङ्गलत्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपिवस्तूनि तद्रूपाध्यारोपेण प्रवृत्तेः, तथाहि-अकलङ्क-- धियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तांगमयति, अतथाभूते वस्तुनि तद्बुद्धया तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीण'-त्तिएष हेतुतद्विभक्तयोः 'पडिसेहो'त्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणा-ज्ज्ञातव्य इति गाथार्थः ।। एवकहेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्त-विपक्षप्रतिषेधं दर्शयन्नाहनि.[१४६] बुद्धाई उवयारेपूयाठाणं जिना उसब्भावं।
दिद्रुते पडिसेहो छट्टो एसो एवयवो उ॥ वृ.'बुद्धादयः' आदिशब्दात्कपिलादिपरिग्रहः, उपचारइति 'सुपांसुपो भवन्तीति न्यायादुपचारेण किञ्चिदतीन्द्रियं कथयन्तीतिकृत्वा न वस्तुस्थित्या पूजाया: स्थानं पूजास्थानम्, जिनास्तु 'सद्भाव' परमार्थमधिकृत्येति वाक्येशषः सर्वज्ञत्वाद्यसाधारणगुणयुक्तत्वादिति भावना, ‘दृष्टान्तप्रतिषेध' इति विपक्षशब्दलोपाद् दृष्टान्तविपक्षप्रतिषेधः, किम्?-षष्ठएषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि?-सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः॥षष्ठमवयवमभिधायेदानी सप्तं दृष्टान्तनामानमभिधातुकाम आहनि.[१४७] अरिहंत मग्गगामी दिटुंतो साहुणोऽवि समचित्ता !
पागरएसुंगिहीसु एसंते अवहमाणा उ॥ वृ. पूजामर्हन्तीत्यर्हन्तः, न रुहन्तीति वा अरुहन्तः, किम्?-दृष्टान्त इति सम्बन्धः, तथा 'मार्गगामिन' इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यतआह-'साधवः' साधयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः? -'समचित्ता' रागद्वेषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात्, आहच-'पाकरतेषु' आत्मार्थमेव पाकसक्तेषु'गृहीषु' अगारिषु एषन्ते' गवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आह- 'अवहमाणाउ' नघन्तोऽघ्नन्तः, तुरवधारणार्थः, ततश्चाघ्नन्तएव, आरम्भाकरणेनपीडामकुर्वाणा इत्यर्थः । एवं द्विविधोऽपि दृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदं, स तु संस्कृत्य कर्तव्योऽहंदादिवदिति गाथार्थः ॥
उक्तः सप्तमोऽवयवः, साम्प्रतमष्टमभिधित्सुराहनि.[१४८] तत्थ भवे आसंका उद्दिस्म जइविकीरए पागो।
तेन रविसमं नायं वासतणा तस्स पडिसेहे। वृ.'तत्र' तस्मिन् दृष्टान्ते भवेदाशङ्का भवत्याक्षेपः, तथा 'उद्दिश्य' अङ्गीकृत्य 'यतीनपि' संयतानपि, अपिशब्दादपत्यादीन्यपि, 'क्रियते' निर्वय॑ते पाकः, कैः?-गृहिभिरिति गम्यते, ततः किमित्यत आह-तेन कारणेन, रइतिनिपातः किलशब्दार्थः, 'विषमम्' अतुल्यं 'ज्ञातम्' उदाहरण, वस्तुत: पाकोपजीवित्येन साधूनामनवद्यवृत्त्यभावदिति, भावितमेवैतत्पूर्वम्, इत्यष्टमोऽवयवः, इद्यानी नवममधिकृत्याह-'वर्षातृणानि तस्य प्रतिषेधे' इति, एतच्च भाष्यकृता प्राक्प्रपञ्चितमेवेति न प्रतन्यत इति गाथार्थः॥उक्तो नवमोऽवयवः, साम्प्रतंचरममभिधित्सुराह
नि.[१४९] तम्हा उसुरनराणं पुज्जत्ता मंगलं सया धम्मो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org