________________
दशवैकालिक-मूलसूत्र-१/-/५ लक्षणानां 'चतुर्णा' प्रतिज्ञादीनां प्रतिपक्षो' विपक्षः, पञ्चमोऽवयव इति, आह-दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थं चतुर्णामित्युक्तम् ?, उच्यते, हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात्, तद्विपक्ष एव चास्यान्तर्भावाददोष इति। उक्तः पञ्चमोऽवयवः षष्ठ उच्ये, तथा चाह-'इत' उत्तरत्र 'षष्ठोऽवयवो' विपक्षप्रतिषेधस्तं 'वक्ष्ये' अभिधास्य इति गाथार्थः ।। इत्थं सामान्येनाभिधायेदानीमाद्यद्वयविपक्षप्रतिषेधमभिधातुकाम आहनि.[१४४] सायं संमत्त पुमं हासंरइ आउनामगोयसुहं।
धम्मफलं आइदुगे विवक्खपडिसेहमो एसो॥ वृ.'सायं'ति सातवेदनीयं कर्म संमत्त'ति सम्यक्त्वं सम्यग्भाव: सम्यक्तमोहनीयं कमैव, 'पुमं' ति पुंवेदमोहनीयं 'हासं'तिहस्यतेऽनेनेति हास: तद्भावो हास्यं-हास्यमोहनीयम्, रम्यतेऽति रति:-क्रीडाहेतुः रतिमोहनीयंकव, आउनामगोयसुहं'तिअत्रशुभशब्दः प्रत्येक-मभिसंबध्यते अन्ते वचनात्, ततश्च आयुः शुभं नाम शुभं गोत्रं शुभम्, तत्रायुः शुभं तीर्थकरादि-सम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि-यशोनामादिशुभं तीर्थकरादीनामेव भवति, तथोच्चैर्गोत्रं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलम् धर्मफलं, धर्मेण वा फलं धर्मफलमं, एतद् अहिंसादेजिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाद्धितम्, अतः स एव धर्मो मङ्गलं न श्वसुरादयः, तथाहिमङ्गयते हितमनेनेति मङ्गलम्, तच्च यथोक्तधर्मेणैव मङ्गयते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वसुरादय इति स्थितम्।
आह-'मङ्गलबुद्धयैवजन: प्रणमती'त्युक्तं तत्कथम्? इति, उच्यते, मङ्गलबुद्धयापि गोपालाङ्गनादिर्मोहतिमिरोपप्लुतवुद्धिलोचनो जनः प्रणमन्नपिन मङ्गलत्वनिश्चायायालम्, तथाहिन तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते, अतद्रुप एव तद्रुपाध्यारोपद्वारेण तत्प्रवृत्तेरिति। आइदुगं'तिआद्यद्वयं प्रामुक्तं तस्मिन्आद्यद्वयविषये, विपक्षप्रतिषधः, 'मो' इति निपातो वाक्यालङ्कारार्थः एष' इति यथा वर्णित इति गाथार्थः ॥
इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः सम्प्रति हेतुतच्छुद्धयोर्विपक्षप्रतिषेधप्रतिपादयिषयेदमाहनि.[१४५] अजिइंदिय सोवहिया वहगा जइ तेऽवि नाम पुज्जंति।
___ अग्गीवि होज्ज सीओ हेउभित्तीण पडिसेहो। वृ.नजितानी श्रोत्रादीनोन्द्रियाणि यैस्ते तथोच्यन्ते उपधिश्छद्म मायेत्येनान्तरम्, उपधिना सह वर्तन्त इति सोपधयो-मायाविनः परव्यंसका इतियाक्त् अथवा उपदधातीत्युपधि:वस्त्राद्यनेकरूपः परिग्रहः, तेन सह वर्तन्ते ये ते तथाविधा महापरिग्रहा इत्यर्थः, वधन्तीति वधका:प्राण्युपमर्दकर्तारः, 'जइतेऽवि नाम पुज्जति'त्ति यदीति पराभ्युपगमसंसूचकः, तइति याज्ञिकाः, अपि: संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्तन्ते, यदि ते नाम पूज्यन्ते तयग्निरपि भवेच्छीतः, नच कदाचिदप्यसौ शीतो भवति, तथा वियदिन्दीवरस्त्रजोऽपि वान्ध्येयोरःस्थलशोभामादधीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिनाजनेन पूज्यन्ते तथापि तेषां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org