________________
५४
दशवैकालिक - मूलसूत्र - १ /-/ १ तउससगडं खयामि, तुमं पुण तंमोयगं देज्जासि जो नगरद्दारेण न नीसरति, पच्छा सागडिएण अब्भुवग धुत्तेण सक्खिणो कया, सुगडं अहिद्वित्ता तेसिं तउसाणं एक्क्कयं खंड अवनित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणतिइमे तउसा न खाइया तुमे, धुत्तेण भण्णति- जइ न खाइया तसा अग्घवेह तुमं, तओ अग्घविएसु कइया आगया, पासंति खंडिया तउसा, ताहे कइया भांति - को एए खइए तउसे किणइ ?, तओ करणे ववहारो जाओ खइयत्ति, जिओ सागडिओ । एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्गिज्जति, अच्चाइओ सागडिओ, जूतिकरा ओलग्गिया, ते तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खात्रिओ-जहा तुमं खुड्डड्यं मोदग णगरदारे ठवित्ता भण एस स मोटगो न नीसरइ नगरदारेण, गिण्हाहि जिओ धुत्तो । एस लोइओ, लोगुत्तरेवि चरणकारणानुयोगे कुस्सतिभावितस्स तहा लूसगो पउंजइ - जहा सम्मं पडिवज्जइ । दव्वानुजोगे पुन पुज्जा भांतिपुव्वं दरिसिओ चेव ।
अन्ने पुण भांति - पुव्वं सयमेव सव्वभिचारं हेउं उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होज्जा, पच्छा तमेव हेउं अत्रेणं निरुत्तवयणेणं ठावेइ । उक्तो लूषकस्तदभिधा - नाच्चा हेतुरपि । साम्प्रतं यदुक्तं 'क्वचित्पञ्चावयव' मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगलं' मित्यादिलक्षणमधिकृत्य निदर्श्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदाय: प्रतिज्ञा, इयं श्लोकार्थेनोक्ता इति, देवादिपूजितत्वादिति हेतु:, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः, अत्रापि चादिशब्दाद् गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च भावमनोऽधिकृत्यार्हद्दृष्टान्तेऽसि कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं - मङ्गलं यथाऽर्हदादयस्तथा च देवादिपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविना भूतमितिकृत्वा तेन सूचितमवगन्त-व्यमित्यलं विस्तरेण ॥ साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनिर्युक्त्या प्रतिपादयन्नाहधम्मो गुणा अहिंसाइया उते परममंगल पइन्ना !
नि. [१०]
देवावि लोगपुज्जा पणमंति सुधम्ममिइ हेऊ ॥
वृ. 'धर्म:' प्राग्निरूपितशब्दार्थः, सच क हत्याह-गुणा अहिंसादयः, आदिशब्दात् संयमतपः परिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधरनरपतिपरिग्रहः, 'लोकपूज्या' लोकपूजनीयाः 'प्रणमंति' नमस्कुर्वन्ति, 'कम् ? - 'सुधर्माणं' शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः ॥ दितो अरहंता अनगारा य बहवो उजिनसीसा।
नि. [११]
वत्तणुवत्ते नज्जइ जं नरवइणोऽवि पणमंति ॥
वृ. ‘दृष्टान्तः' प्राग्निरूपितशब्दार्थः, स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपा पूजामर्हन्तीत्यर्हन्त:, तथा अनगाराश्च बहव एव जिनशिष्या इति, न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारंगृहं तद्येषां विद्यत इति अर्श आदेशकृतिगणत्वादच्प्रत्ययः अगारा-गृहस्थाः न अगौरा- अनागाराः, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पा:, रागादिजेतृत्वाज्जिन्स्तच्छिष्याः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org