________________
अध्ययनं-१, उद्देशकः - नि.८६/१] एगो सावओ, तेन भणि
तुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं।
__जइ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देहि ||१|| इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह-'अस्ति जीव' इति, अत्र वद किञ्चित्, स वक्तव्यो यद्यस्ति जीवः एवं तहि घटादीनाप्यस्तित्वाज्जीवत्यप्रसङ्गइति । गतं प्रतिनिभम्, अधुना हेतुमाहनि.[८६/२] किं नु जवा किज्जते? जेन मुहाए न लब्भंति॥
वृ.किं न युवाः क्रीयन्ते?, येन मुधा न लभ्यन्त इत्यक्षरार्थः । भावार्थस्त्वयम्कोवि गोधो जवे किणाइ, सो अन्नेण पुच्छिज्जइ-किं जवे किणासि?, सो भणइ-जेन सुहियाए न लब्भामि । लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्तमवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यद्याह विनेयः-किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते?, स वक्तव्योयेन नरकादिषु न कष्टतरा वेदना वेद्यत इति । द्रव्यानुयोगे तु यद्याह कश्चित्-किमित्यात्मा न चक्षुरादिभिरुपलभ्यते ?, स वक्तव्यो-येनातीन्द्रिय इति । गतं हेतुद्वारम्, तदभिधानाच्चोपन्यासद्वारम्, तदभिधानाच्चोदाहरणद्वारमिति | साम्प्रतं हेतुरुच्यते-तथा चाहनि.[८७] अहवावि इमो हेऊ विन्नेओ तत्थिओ चउविअप्पो।
जावग थावग वंसगलूसग हेऊ चउत्थो उ॥ वृ.अथवा तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलक्षणो हेतुः, 'अपि:' सम्भावने, कि सम्भावयति?, 'इमो' अयं अन्यद्वार एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्वेन गुणभूतत्वादहेतुरपि, किंतु हेऊ किोओ तत्थिमो त्ति व्यवहितोपन्यासात् तत्रायं-वक्ष्यमाणो हेतुर्विज्ञेयः 'चतुर्विकल्प' इति चतुर्भेदः, विकल्पानुदर्शयति-यापकः स्थापक: व्यंसक; लूषकः हेतुः चतुर्थस्तु। अन्ये त्वेवं पठन्ति-'हेउत्ति दारमहुणा, चउव्विहो सो उहोइनायव्वो'ति, अत्राप्युक्तमुदाहरणम्, हेतुरित्येतद्वारमधुना-तुशब्दस्य पुनःशब्दार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्ध तु पूर्ववदेवेति गाथाक्षरार्थः॥
भावार्थं तु यथावसरं स्वयमेव वक्ष्यति । तत्राद्यभेदव्याचिख्यासयाऽऽहनि.[८८/१] उब्भामिगा य महिला जावगहेडेमिउंटलिंडाई।
वृ.असति महिला, किम्?-यापयतीति यापक: यापकश्चासौ हेतुश्च यापकहेतुः तस्मिन् उदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः ।।
भावार्थ: कथान-कादवसेयः, तच्चेदं कथानकम् एगो वाणियओ भज्जं गिण्हेऊण पच्चंतंगओ, पाएण खीणदवा घणियपरद्धा कयावराहा य।
पच्वंतं सेवंती पुरिसा दुरहीयविज्जा य॥१॥ सा य महिला उब्भामिया, एगंमि पुरिसे लग्गा, तं वाणिययं सागारियंति चिंतिऊण भणइवच्च वाणिज्जेण, तेन भणिया-किं घेत्तूण वच्चामि?, सा भणइ-उट्टलिडियाओ घेत्तूणं वच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org