________________
अध्ययनं-१, उद्देशकः- [नि. ३७] केचन त्वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम् -
संहिताच पदं चैव, पदार्थ: पदविग्रहः।
चालनाप्रत्यवस्थानं, व्याख्या तत्रस्य षड्विधा।। इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः। किं च प्रकृतम्?, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तच्चेदं मू. (१) धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो तवो।
देवामितं नमसंति, जस्स धम्मे सया मणो॥ वृ. तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्धैव। अधुना पदानि-धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा: अपितं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र "धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष् विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तसयेदं रूपमृत्कृष्टमिति। तथा 'तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः" इति नुमि कृते स्त्र्यधिकारे टाबन्तस्य नपूर्वस्येदं रूपं यदुताहिसेति। तथा "यमु उपरमे" इत्यसय धातो: संपूर्वस्या प्रत्यान्तस्य संयम इति रूपं भवति । तथा "तप सन्तापे" इत्यस्य धातोरसुन्प्रत्ययान्तस्य तपइति। तथा "दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य प्रातिपदिकस्य"नमोवरिवश्चित्रड: क्यच्" इति क्यजन्तस्य लक्रियान्तादेशस्ततश्च नमस्यन्तीति भवति । तथा यदितिसर्वनाम्न: षष्ट्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले दा" इति दाप्रत्ययः "सर्वस्य सोऽन्यतरस्यां दि" इति सआदेश: सदा। तथा "मन ज्ञाने" इत्यस्य धातोरसुन्प्रत्ययान्तस्यमन इति भवति । इतिपदानि। साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तम्
"दुर्गतिप्रसृतान्जीवान्, यस्माद्धारयते ततः।
धत्ते चैतान्शुभेस्थाने, तस्माद् धर्म इति स्मृतः॥" मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, 'उत्कृष्टं प्रधानम्, न हिंसा प्राणातिपातविरतिरित्यर्थः, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारकर्मेति तपः-अनशनादि, दोव्यन्तीतिदेवाः क्रीडन्तीत्यादि भावार्थः, अपि सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'त' मित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किम्? - 'धर्मे' प्रागभिहितस्वरूपे 'सदा' सर्वकालं 'मन' इत्यन्तःकरणम्। अयं पदार्थ इति। पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान प्रदर्शित इति। चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाहनि.[३८] कत्थइ पुच्छइ सीसो कहिचऽपुट्ठा कहंति आयरिया।
सीसाणं तुहियट्ठा विपुलतरागं तु पुच्छाए।। वृ. क्वचित्किाञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, इत्थमनयोः प्रवृत्तिः । तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org