________________
२०८
दशवैकालिक-मूलसूत्र-८/-/३५३ करणैरित्यर्थः, एवं वर्तमानोऽहिंसक: सन् भवति संयतो, नान्यथेति सूत्रार्थः ।। मू. (३५४) पुढवि भित्ति सिलं लेखें, नेवभिंदे न संलिहे ।
तिविहेण करणजीएणं, संजए सुसमाहिए। वृ.एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गत-विधीन्विधानतो विशेषेणाह-'पुढवित्ति सूत्रं, पृथिवीं शुद्धां 'भित्तिं' तटीं 'शिला' पाषाणात्मिकां 'लेष्टुम्' इष्टालखण्डं नैव भिन्द्यात् तो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं 'संलेखनम्' ईषल्लेखनं 'त्रिविधेन करणयोगेन' न करोति मनसेत्यादिना 'संयतः' साधुः ‘सुसमाहितः' शुद्धभाव इति । मू. (३५५) सुद्धपुढवीं न निसीए, ससरक्खमि अ आसने।
पमज्जितु निसीइज्जा, जाइत्ता जस्स उग्गहं।। वृ.तथा 'सुद्ध'त्ति सूत्रं, 'शुद्धपृथिव्याम्' अशस्त्रोपहतायामनन्तरितायां न निषीदेव, तथा 'सरजस्के वा' पृथ्वीरजोऽवगुण्ठिते वा 'आसने' पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्यतां रजोहरणेन निषीदेत् 'ज्ञात्वे'त्वचेतनां ज्ञात्वा 'याचयित्वाऽवग्रह मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ।। मू. (३५६) सीओदगं न सेविज्जा, सिलावुई हिसाणि ।
उसिणोदगं तसफासु, पडिगाहिज्ज संजए। वृ. उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह'सीओदगं'ति सूत्रं, 'शीतोदकं' पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति। यद्येवं कथमयं वर्ततेत्याह-'उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्र, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधुः, एतच्च सौवीराद्युपलक्षणमिति। मू.(३५७) उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे।
समुप्पेह तहाभूअं, नो नं संघट्टए मुनी। वृ.तथा 'उदउल्लं'ति सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहत: 'उदकाम्' उदकबिन्दुचितमात्मनः 'कार्य' शरीरं स्निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः 'न संलिखेत्' पाणिना, अपितु 'संप्रेक्ष्य निरीक्ष्य तथाभूतम्' उदकाईदिरूपं नैव कार्य 'संघट्टयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः॥ मू. (३५८) इंगालं अनि अच्चि, अलायं वा सजोइअं।
न उंजिज्जा न घट्टिज्जा, नो में निव्वावए मुनी। वृ. उक्तोऽप्कायविधिः, तेजःकायविधिमाह-'इंगालं"ति सूत्रं, 'अङ्गारं' ज्वालारहितम् 'अग्निम्' अय:पिण्डानुगतम् 'अचिः' छित्रज्वालम् 'अलातम्' उल्मुकं वा 'सज्योति:' साग्निकमित्यर्थः, किमित्याह-नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम्-अग्निं 'निर्वापयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ॥ मू. (३५१) तालिअंटेण पत्तेण, साहार विहुणेण वा।
नवीइज्जाप्पणो कार्य, बाहिरं वावि पुग्गलं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org