________________
२०७
अध्ययन-८, उद्देशकः - [नि.३०६] नि. [३०६] दंसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए ।
पणिही पउंजिअव्चो अनायणाइं च वज्जाई ।। वृ.दर्शनज्ञानचारित्राणि संयम: संपूर्णः, 'तस्य' संपूर्णसंयमस्य साधनार्थ प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा 'अनायतनानि च' विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ।। नि.[३०७] दुप्पणिहिअजोगी पुण लंछिज्जइ संजमं अयाणंतो।
वीसथनिसटुंगोव्व कंटइल्ले जह पडतो॥ वृ. 'दुष्प्रणिहितयोगी पुनः' सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्च्यतेखण्डयते संयममजानानः संयत एवेति । दृष्टान्तमाह-विश्रब्यो निसृष्टाङ्गस्तथा अयनपर: कंटकवति श्वनादौ यथा पतन् कुश्चिल्लञ्छयते तद्वदसौ संयत इति गाथार्थः ।। व्यतिरेकमाहनि. [३०८] सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहि।
निद्दहइ अकम्माई सुक्कतणाई जह! अग्गी ॥ वृ. 'सुप्रणिहितयोगी पुनः' सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते 'पूर्वभणितदोपैः' कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह-शुष्कतृणानि यथा अग्निनिर्दहति तद्वदिति गाथार्थः ।। नि. [३०९] तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं ।
पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति । वृ.यस्मादेवमप्रशस्तप्रणिधिर्यु:खद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधीम् 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने' प्रणिधौ 'प्रशस्ते' कल्याणे, यत्रः कार्य इति वाक्यशेषः । निगमयत्राह-भणित आचारप्रणिधिरिति गाथार्थः ।।
उक्तो नाम-निष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सुत्रमुच्चारणीयं, तच्चेदम्मू. (३५१) आयारप्पणिहिं लद्धं, जहा कायब भिक्खुणा।
तंभे उदाहरिस्सामि, आनुपुबि सुणेह मे।। वृ.व्याख्या-'आचारप्रणिधिम्' उक्तलक्षणं 'लब्ध्वा' प्राप्य 'यथा' येन प्रकारेण कर्तव्यं विहितानुष्ठानं 'भिक्षुणा' साधुना 'तं' प्रकारं 'भे' भवद्भयः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्व्या' परिपाट्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः ।। मू. (३५२) पुढविदगअगनिमारुअ, तणरुक्खस्सबीयगा।
तसा अ पाणा जीवत्ति, इइ वुत्तं महेसिणा। वृ.प्रकारमाह-'पुढवित्ति सूत्रं पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकाया: पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा' वर्धमानेन गौतमेन वेति। मू. (३५३) तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ
मनसा कायवक्केणं, एवं हवइ संजए। वृ. यतश्चैवमत: 'तेसिं'ति सूत्रं, अस्य व्याख्या-'तेषां' पृथिव्यादीनाम् 'अक्ष्णयोगेन' अहिंसाव्यापारेण नित्यं 'भवितव्यं' वर्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org