________________
अध्ययनं-७, उद्देशकः - नि.२८८]
१९३ यद्दर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तप:प्रधानभावशुद्धिः-आन्तरतपोऽनुष्ठानाराधनमिति । कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मले न 'विशुद्धो' मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिय थोक्तान्येव दर्शनादीनीति गाथार्थः ।। उक्ता शुद्धिः इह च भावशुद्धिः, सा च वाक्य-शुद्धर्भवतीत्याहनि.२८९] जं वक्कं वयमाणस्स संजमो सुज्झई न पुण हिंसा।
न य अत्तकलुसभावो तेन इहं वक्कसुद्धित्ति ।। वृ.' यद्' यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्धयति, शुद्ध्यतीति निर्मल उपजायते, न पुनर्हिसा भवति कौशिकादेरिव, न चात्मनः कलुषभावः कालष्यं-दुष्टाभिसंधिरूपं संजायते, तेन कारणेन 'इह' प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽन्न प्रयतितव्यमिति गाथार्थः ।। नि. [२९०] वयणविभत्तीकुसलस्स संजमंमी समुज्जयमइस्स।
दुब्भासिएण हुज्जा हु विराधना तत्थ जइअव्वं ।। वृ.अवचनविभक्ति कुशलस्य' वाच्येतरवचनप्रकारभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु)द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिद्दुर्भाषितेन कृतेन भवेत् विराधना-परलोकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं' प्रयत्नः कार्य इति गाथार्थः ।।
आह-यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह चनि.२९१] वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो।
जइवि न भासइ किंची न चेव वयगुत्तयं पत्तो॥ वृ. वचनविभक्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभित्रमजानानः यद्यपि न भाषते किञ्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुस एवेति गाथार्थः । व्यतिरेकमाहनि. [२९२] वयणविभत्तीकुंसलो वओगयं बहुविहं वियाणंतो।
दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो।। वृ.'वचनविभक्तिकुशलो' वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः । साम्प्रतं वचनविभक्तिकुशलस्यौधतो वचनविधिमाह'नि. [२९३] पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे ।
अचक्खुओ व नेतारं, बुद्धिमन्नेउअ ते गिरा ।। वृ-व्याख्या- 'पूर्व प्रथममेव वचनोच्चारणकाले 'बुद्धया प्रेक्ष्य' वाच्यं दृष्ट्वा पश्चाद्वक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह-'अचुक्षुष्मानिव' अन्ध इव 'नेतारम्' आकर्षकं 'बुद्धिमन्वेतु ते गी:' बुद्धयनुसारेण वाक्यप्रवर्ततामिनि श्लोकार्थः ।।
उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः 27/13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org