________________
१९२
दशवैकालिक-मूलसूत्र-७/-/२९४ सचरित्तस्स उ भासा सच्चा मोसा उ इअरस्स ।। वृ. 'प्रथमाद्वितीये' सत्यामृषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, स्वरूपमाह-'सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तद्वद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां, हितत्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तदृद्धिनिबन्धनभूता चेति गाथार्थ: ।। उक्तं वाक्यमधुना शुद्धिमाहनि. [२८४] नामंठवणासुद्धी दव्वसुद्धी अ भावसुद्धी ।
एएसि पत्ते परूवणा होइ कायव्वा । वृ.नामशुद्धिः स्थापनाशुद्धिर्द्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां' नामशुद्धयादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः ।। तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्य-शुद्धिमाहनि. [२८५] तिविहा उ दव्वसुद्धी तद्दव्वादेसओ पहाणे अ।
तद्दव्वगमाएसो अनन्नमीसा हवइ सुद्धी ।। वृ.त्रिविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत इति तद्रव्यशुद्धिः आदेशत' इति आदेशद्रव्यशुद्धिः 'प्राधान्यतश्चेति प्राधान्यद्रव्यशुद्धिश्च। तत्र तद्रव्यशुद्धिः 'अनन्ये'त्यन्यद्रव्यशुद्धिः, यद्रव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्रव्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधाअन्यत्वेनानन्यत्वेनच, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थ: ।। प्राधान्यद्रव्यशुद्धिमाहनि. [२८६] वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी।
तत्थ उ सुकिल महुरा उ संमया चेव उक्कोसा॥ वृ.वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकूलता सा प्राधान्यतः शुद्धिरुच्यते, 'तत्र' चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ तुशब्दात्सुरभिमृद् गन्धस्पर्शी च संमतौ, यथाभिप्रायमपि प्रायो मनोज्ञौ, बहूनामित्थंप्रवृत्तिसिद्धेः, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । उक्ताद्रव्यशुद्धिः, नि. [२८७] एमेव भावसुद्धी तब्भावएसओ पहाणे अ!
तब्भावगमाएसो अनन्नमीसा हवइ सुद्धी । वृ. 'एवमेवे'ति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आदेशत' इति आदेशभावशुद्धिः 'प्राधान्यतश्चे'ति प्राधान्यभावशुद्धिश्च, तत्र तद्भावशुद्धिः 'अनन्ये' त्यनन्मभावशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नाधभिलाषवदसौ तद्भावशुद्धिः, आदेशे मिश्रा भवति । शुद्धिस्तदन्यानन्यविषयेत्यर्थः, एतदुक्तं भवति-आदेशभावशुद्धिर्द्विविधा-अन्यत्वेऽनन्यत्वेच, अन्यत्वे यथा शुद्धभावस्य साधोर्गुरुः अनन्यत्वे शुद्धभाव इति गाथार्थः ।। प्रधानभावशुद्धिमाहनि. [२८८] दंसणनाणचरिते तवोविसुद्धी पहाणमाएसो।
जम्हा उविसुद्धमलो तेन विसुद्धो हवइ सुद्धो॥ वृ. 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिः 'प्राधान्यादेश' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org