________________
अध्ययनं - ६, उद्देशकः - [ नि. २६८ ]
१८७
गन्धद्रव्यं' 'पद्मकानि च' कुङ्कुमकेसराणि चशब्दादभ्यच्चैवंविधं गात्रस्य 'उद्वर्त्तनार्थम्' उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः ॥ नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाई कारिअं ? ॥
मू. ( २८९ )
वृ. उक्तोऽस्त्रानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यतेशोभायां नास्ति दोष: ‘अलङ्कृतश्चापि चरेद्धर्म मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह-'नगिणस्स 'त्ति सूत्रं, 'नग्रस्य वापि' कुचेलवतोऽप्युपचारनग्रस्य' निरुपचरितस्य नग्रस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां 'दीर्घरोमनखवत: ' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति ॥ मैथुनाद् 'उपशान्तस्य' उपरतस्य किं 'विभूषया' ढया कार्यं ? न किञ्चिदिति सूत्रार्थः ॥
मू. (२९० )
विभूसावत्तिअं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥
वृ.इत्थं प्रयोजनाभावमभिधायापायमाह - 'विभूस' त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं 'भिक्षुः ' साधुः कर्म बन्धाति 'चिक्कणं' दारुणं, संसारसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारे' अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥
मू. ( २९१ )
विभूसावत्तिअं चेअं, बुद्धा मनंति तारिसं ।
सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं ॥
वृ. एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह - 'विभूस' त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्ग चित्तमित्यर्थः, 'बुद्धाः' तीर्थकरा‘मन्यन्ते' जानन्ति 'तादृशं' रौद्रकर्मबन्धहेतुभूतं विभूषाक्रिया - सदृशं 'सावद्यबहुलं चैतद्' आर्तध्यानानुगतं चेतः, नैतदित्थंभूतं ' त्रातृभि:' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ॥
मू. (२९२ ) खवंति अप्पाणममोहदंसिणो, तवे रया संजम अज्जवे गुणे । धुणंति पावाइं पुरेकडाई, नवाइं पावाई न ते करंति ॥
वृ. उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-' खवंति’त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशष्टा इत्याह-'अमोहदर्शिमः ' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते तपसिअनशनादिलक्षणे रताः - सक्ताः, किंविशिष्टे तपसीत्याह'संयमार्जवगुणे' संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पन्त्यपनयन्ति पापानि 'पुराकृतानि' जन्मान्तरोपात्तानि 'नवानिं' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥
मू. (२९३ ) सओवसंता अममा अकिंचणा, सविज्जविज्जानुगया जसंसिणो । उउप्पसत्रे विमलेव चंदिमा, सिद्धिं विमाणाइं उवेंति ताइणो ॥ त्तिबेमि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org