________________
पीठिका[नि. २३]
"तस्यात्मा संयमो यो हि, सदाचारे रतः सदा।
स एव धृत्तिमान् धर्मस्तस्यैव च जिनोदितः।" इति, स चाचार: षड्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम्, अथवाऽ ऽत्मसंयमःतदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च'तथा जीवसंयमोऽपि च भवति चतुर्थेऽध्ययनेऽाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येय वर्तते, उक्तं च
"छसु जीवनिकाएK, जे बुहे संजए सया।
से चेव होइ किन्नेए, परमत्थेण संजए।" इत्यादि। एवमेव च धर्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, सच सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपः संयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं तस्याः विशोधिः-सायद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तं च--
से संजए समक्खाए, निरवज्जाहार जे विऊ।
धम्मकायट्ठिए सम्म, सुहजोगाण साहए।" इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पुष्टेन तद्विदापि न महाजनसमक्षं तंत्रेव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च-षष्ठेऽध्ययनेऽर्थाधिकार; आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च
"गोअरग्गपविदेउन निसिएज्ज कत्थई ।
कहं च न पबंधिज्जा चिट्ठित्ताण व संजए।" इत्यादि आलयगतेनापि तेन गुरुणा(वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदाधिकारवदेवसप्तममध्ययनमिति, आहच-"वयणविभत्ती" त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः-एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनःशब्द: शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति,
"सावज्जणवज्जाणं वयणाणंजो नयाणइ विसेसं।।
वोत्तुं पि तस्स न खमं किमंग पुन देसणं काउं?" इत्यादि तच्च निरवद्यं वच: आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च-प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन भणितम्' उक्तम्, प्रणिधानं नामविशिष्टश्वेतोधर्म इति, उक्तंच
__ "पणिहाणरहियस्सेह, निरवज्जपि भासियं।।
सावज्जतुल्लं विनेयं, अज्झत्थेणेहसंवुडं।" इत्यादि आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह च-'नवमेऽध्ययनेन विनयोऽर्थाधिकार:' इति, उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org