________________
१५६
दशवैकालिक-मूलसूत्र-५/१/१३४ नवनीतपोग्गलियमादि, परोप्परं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणएसु भावनीयमिति सूत्रार्थः ।। म.(१३५) तं भवे भत्तपानं तु, संजयाण अकप्पि।
दिति पडिआइक्खे, न मे कप्पइ तारिसं॥ वृ. 'तं भवे'त्ति सूत्रं, तद्भवेतद्भक्तपान तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। म. (१३६) असनं पानगं वावि, खाइमं साइमं तहा।
तेउम्मि हुज्ज निक्खित्तं, तं च संघट्टिआ दए । वृ. तथा 'असनं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं, 'तेजसि भवेनिक्षिप्तं, तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच्च संघट्टय, यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुद्वतिष्यत इत्याघट्टय दद्यादिति सूत्रार्थः॥ मू.(१३७) तं भवे भत्तपानं तु, संजयाण अकप्पि।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं।। वृ.'तं भवे'त्ति सूत्रं, तद्भवेद्भक्तपान तु संयतानामकल्पिकमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। मू.(१३८) एवं उस्सक्किया, ओसक्किया, उज्जवालिया, पज्जालिआ,
निवाविया, उस्सिंचिया, निस्सिंचिया, उववत्तिया, ओयारियादए। वृ.एवं 'उस्सक्किय'त्ति यावद्भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं 'ओसक्किया' अवसर्प्य अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः, एवं 'उज्जालिया पज्जालिया' 'उज्जवाल्य' अर्धविध्यातं सकृदिन्धनप्रक्षेपेण, 'प्रज्वाल्य' पुनः पुनः । एवं 'निव्वाविया' निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिचिया निस्सिचिया, 'उत्सिच्य' अति-भृतादुज्झनभयेत ततो वा दानार्थं तीमनादीनि, 'निषिच्य' तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन वाऽऽद्रहितमुदकेन निषिच्य, एवं 'ओवत्तिया ओयारिया', 'अपवर्त्य' तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा अवतार्य' दाहभयाद्दानार्थवा दद्यात्, अत्र तदन्यश्च साधुनिमित्तयोगे न कल्पते ।। मू.(१३९) तं भवे भत्तपानंतु, संजयाण अकप्पिा
दितिअंपडिआइक्खे, न मे कप्पइ तारिस ।। वृ. 'तं भवे' त्ति सूत्रं पूर्ववत् ॥ मू. (१४०) हुज्ज कटु सिलं वावि, इट्ठालं वावि एगया।
उवि संकमट्ठाए, तं च होज्ज चलाचलं । वृ. गोचराधिकारा एव गोचरप्रविष्टस्य 'होज्ज'त्ति सूत्रं, भवेत् काष्ठं शिला वापि इट्टालं वाऽपि 'एकदा' एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थ, तच्च भवेत्, 'चलाचलम्' अप्रतिष्टितं, न तु स्थिरमेवेति सूत्रार्थः ।
मू.(१४१) न तेन भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org