________________
अध्ययनं - ५, उद्देशक :- १. [ नि. २४५ ]
पूर्वोक्ता 'कालमासवती' गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्जिन्निषिदेद् निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः ॥
मू. ( ११६ )
तं भवे भत्तपानं त, संजयाण अकप्पिअं ।
तु,
दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥
वृ. 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम्, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थ: ॥
मू. ( ११७)
थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पानभोअणं ॥
वृ. . किं च- 'थणगं' ति सूत्र, स्तनं (न्यं) पाययन्ती, किमित्याह - दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदद्भूम्यादौ आहरेत्पानभोजनम्, अत्रायं वृद्धसंप्रदायः गच्छवासी जइ थणजीवी पिअंतो निक्खित्तो तो न गिण्हंति, रोवउ वा मावा, अह अनंपि आहारेड़ तो जति ज रोवइ तो गिण्हंति, अह रोवइ तो न गिव्हंति, अह अपिअंतो निक्खित्तो थणजीवी रोवइ तओ न गिण्हंति, अह न रोवइ तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा मा वा पिबंतओ (वा) अपिबंतओ वा न गिण्हंति, जाहे अन्नंपि आहारेउं आढत्तो भवति ताहे जई पिबंतओ तो रोवउ वा मा वा न गेहंति, अह अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेण्हंति, सीसो आह को तत्थ दोसोऽत्थि ?, आयरिओ भणइतस्स णिक्खिप्यमाणस्स खरेहिं हत्थेहिं धिप्पमाणस्स अधिरत्तण परितावणादोसा मज्जारादि वा अवहरेज्ज त्ति सूत्रार्थ : ॥
मू. ( ११८ )
तं भवे भत्तपानं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥
वृ. 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपान त्वनन्तरोदितं संयतानामकल्पिकं,
ददर्ती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥
मू. ( ११९ )
•
Jain Education International
१५३
जं भवे भत्तपानं तु, कप्पाकप्पंमि संकिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥
,
वृ. किं बहुनेति, उपदेशसर्वस्वमाह - 'जं भवे 'त्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः किम् ? - 'शाङ्कितं' न विद्मः किमिदमुद्रमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥
मू. ( १२० )
दगवारेण पिहिअं, नीसाए पीढएण वा लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥
For Private & Personal Use Only
यतश्चैवमतो
www.jainelibrary.org