________________
१५२
दशवकालिक-मूलसूत्र-५/१/१०९ वक्ष्यति स्वयमेवेति सूत्रार्थः ॥ मू. (११०) असंसद्रुण हत्थेण, दवीए भायणेन वा।
दिज्जमाणन इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ वृ.आह च-'असंसट्टेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन-अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, कि सामान्येन?, नेत्याह-पश्चात्कर्म भवति यत्र' दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः ।। मू. (१११) संसद्वेण य हत्थेण, दव्वीए भायणेन वा।
दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ।। वृ. 'संसटेण' ति सूत्रं, संसृष्टेन हस्तेन-अन्नादिलिप्तेन, तथा दा भाजनेन दा दीयमानं 'प्रतीच्छेद्' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहित-मित्यर्थः, इह च वृद्धसंप्रदायः-संसटे हत्थे संसढे मत्ते सावसेसे दव्वे, संसटे हत्थे संसढे मत्ते णिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेऽवि जत्थ सावसेसं दव्वं तत्थ धिप्पइ, न इयरेसु, पच्छाकम्मदोसाउ त्ति सूत्रार्थः ।। किंच मू. (११२) दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए।
दिज्जमाणं न इच्छिज्जा, छंदं से पडिलेहए। वृ. 'दुण्हं'ति सूत्रं, 'द्वयोर्भुञ्जतोः' पालनां कुर्वतोः, एकस्य वस्तुनः स्वामिनोरित्यर्थः, एकस्तत्र 'निमत्रयेत्' तद्दानं प्रत्यामत्रयेत, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम' अभिप्रायं 'से' तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्गृह्णीयान्न चेन्नैवेति, एवं भुञ्जानयोः-अभ्यवहारायोद्यतयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थ :॥ मू.(११३) दुहंतु भुंजमाणाणं, दोऽवि तत्थ निमंतए।
दिज्जमाणं पडिच्छिज्जा जं तत्थेसणियं भवे ।। वृ.ततो 'दुण्हंति सूत्रं द्वयोस्तु पूर्ववत् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्रातिप्रसादेन निमत्रयेयातां, तत्रायं विधि:-दीयमानं 'प्रतीच्छेद' गृह्णीयात् यत्ततैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थ :॥ मू.(११४) गुविणीए उवनत्थं, विविहं पानभोअणं ।।
भुंजमाणं विविजिज्जा, भुत्तसेसं पडिच्छए । वृ.विशेषमाह-'गुब्विणीए' त्ति सूत्रं, 'गुर्विण्या' गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह-'विविधम्' अनेकप्रकारं पानभोजनं' द्राक्षापानखण्डस्वाद्यकादि, तत्र भुज्यमानं तया विवऱ्या, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेषं' भुक्तोद्धरितं प्रतीच्छेत्, यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थ :।। मू. (११५) सिआ य समणवाए, गुम्विणी कालमासिणी।
उद्विआ वा निसीइज्जा, निसन्ना वा पुणुटुए। वृ.किंच-'सिआ य' त्ति सूत्रं, 'स्याच्च कदाचिच्च श्रमणार्थ' साधुनिमित्तं 'गुर्विणी'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org