________________
१५०
दशवैकालिक-मूलसूत्र-५/१/९९ भिक्षाचारा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनात्यदा तद्गमनासंभवमाह, किंतर्हि?,कुलस्य भूमिम्-उत्तमादिरूपामवस्थां ज्ञात्वा 'मितां भूमि' तैरनुज्ञातां पराक्रमेत्, योषामप्रीतिर्नोपजायत इति सूत्रार्थः॥ मू.(१००) तत्थेव पडिलहिज्जा, भूमिआगंविअक्खणो।
सिणाणस्स य वच्चस्स, संलोगं परिवज्जए। वृ.विधिशेषमाह-'तत्थेव'त्ति सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्' उचितं भूमिदेशं 'विचक्षणो' विद्वान, अनेन केवलागीतार्धस्य भिक्षाटनप्रतिषेधमाह, तत्र चतिष्ठन्नानस्य तथा 'वर्चसो' विष्ठाया: संलोकं परिवर्जयेत्, एतदुक्तं भवतिस्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः ।। मू.(१०१) दगमट्टिअआयाणे, बीआणि हरिआणि ।
परिवज्जतो चिट्ठिज्जा, सविदिअसमाहिए। वृ.किंच-'दग'त्तिसूत्रम्, 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृतिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि 'हरितानिच' दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयंस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः' शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः ।। मू.(१०२) तत्थ से चिट्ठमाणस्स, आहरे पानभोअणं ।
. अकप्पिन गेण्हिज्जा, पडिगाहिज्ज कप्पिा वृतत्थ'त्ति सूत्रं, तत्र' कुलोचित्तभूमौ से' तस्य साधोस्तिष्ठतः सतः आहरेद्' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधि:-'अकल्पिकम्' अनेषणीयं न गृह्णीयात्, प्रतिगृह्णी-यात् कल्पिकम्' एषणीयम्, एतच्चापन्नमपिकल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतद-विशेषेण ग्राह्यमिति दर्शनार्थसाक्षादुक्तमिति सूत्रार्थः ।। मू.(१०३) आहरंती सिआ तत्थ, परिसाडिज्ज भोअणं ।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ. आहरंति'त्ति सूत्रम्, आहरन्ती' आनयन्ती भिक्षामगारीति गम्येत 'स्यात्' कदाचित् तत्र' देशे परिशाटयेद्' इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह-ददती 'प्रत्याचक्षीत' प्रतिषधयेत्तामगारों, स्त्येय प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आहन मम - कल्पते तादृशं-परिशाटनावत्, समयोक्तोदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुबिन्दूदाहरणादिनेति सूत्रार्थः।। मू.(१०४) समंद्दमाणी पाणाणि, बीआणी हरिआणी आ।
असंजमकरिनच्चा, तारिसिं परिवज्जए। वृ. किंच-'संमद्द'त्ति सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह-'प्राणनिो' द्वीन्द्रियादीन् 'बीजानि' शालिबीजादीनि 'हरितानि' दूर्वादीनि'असंयमकरी' साधुनिमित्तमसंयमकरणशीला ज्ञात्वा तादृशी परिवर्जयेत्, ददती प्रत्याचक्षीत इती सूत्रार्थः ।
मू.(१०५) साहट्टनिक्खिवित्ता नं, सचित्त घट्टियाणिय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org