________________
पीठिका नि. ११] लक्षणो वाच्यः, तथा उपक्रमकालः' अभिप्रेतार्थसामीप्यानयनलक्षण: सामाचार्या-युष्कभेदभित्रो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम, ततश्चाभीष्टवस्त्ववाप्त्यवसर: काल इत्यर्थः,तथा कालकालो वाच्यः, तत्रैक: कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो भरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, च: समुच्चये, तथा प्रमाणकालः' अद्धाकालविशेषोदिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, भावे'त्ति औदयिकादिभावकालः सादिस-पर्यवसानादिभेदभिन्नो वाच्य इति। प्रकृतं तु'भावेने'त्ति भावकालेन, इहपुनर्दिवसप्रमाण-कालेनाधिकारः, तत्रापितृतीयपौरुष्याः तत्रापि बतिक्रान्तयेति । आह-यदुक्तं - 'पगयं तु भावेणंति' तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले शय्यम्भवेन नियूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाण कालोऽपि भावकाल एव, तस्याद्धा-कालस्वरूपत्वात् तस्य च भावत्वादिति गाथासमुदायार्थः।। अवयवार्थस्तु सामायिकविशेष-विवरणादवसेयः । तथा चाह नियुक्तिकार:नि.[१२] सामाइयअनुकमओवण्णेविगयपोरिसीए ऊ।
निज्जूढं किरसेज्जंभवेण दसकालियं तेनं॥ वृ. सामायिकम्-आवश्यकप्रथमाध्ययनं तस्यानुक्रमः-परिपाटीविशेषः सामायिके वाऽनुक्रम: सामायिकानुक्रमः ततः सामायिकानुक्रमतः-सामायिकानुक्रमेण वर्णयितुम्, अनन्त- . रोपन्यस्तगाथाद्वाराणीतिप्रक्रमाद् गभ्यते, विगतपौरुष्यामेव, तुशब्दस्यावधार्थत्वात्, 'निर्मूढं' पूर्वगतादुद्धृत्य विरचितं, किलशब्दः परोक्षाप्तागमवादसंसूचक: शय्यम्भवेन चतुर्दशपूर्वविदा 'दशकालिकं' प्राग्निरूपिताक्षरार्थं तेन' कारणेनोच्यत इति गाथार्थः
श्रुतस्कन्धयोस्तु निक्षेपश्चतुर्विधो द्रष्टव्यो यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थं किञ्चिदुच्यतेइह नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं त्यागमतो ज्ञाता उपयुक्तः,नोआगमतस्त्विदमेव दशकालिकं, नोशब्दस्य देशवचनत्वात्, एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादि(दे)र्देशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एवं, नोआगमतस्तुदशकालिक श्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वादिति, इदानीमध्ययनोद्देशकन्यासप्रस्तावः, तंचानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवोमोघनिष्पन्ने निक्षेपे लाघवार्थे वक्ष्याम इति॥ ततश्च यदुक्तं-"दसकालिय सुअक्खंध अज्झयणुद्देस निक्खिविउं" अनुयोगोऽस्य कर्त्तव्य इति, तदंशत: सम्पादितमिति ।
साम्प्रतं प्रस्तुतशास्त्र-समुत्थवक्तव्यताभिधित्सयाहनि.[१३३ जेण व जंव पडुच्चा जत्तो जावंति जह य ते ठविया।
सोतं च तओ तानिय तहा य कमसो कहेयव्वं॥ वृ.'येन वा' आचार्येण 'यदा' वस्तु प्रतीस्य' अङ्गीकृत्य "यतो वा' आत्मप्रवादादिपूर्वतो 'यावन्ति वा' अध्ययनानि यथा च' येन प्रकारेण 'तानि' अध्ययनानि स्थापितानि' न्यस्तानि, सच-आचार्यः तच्च वस्तु ततः-तस्मात्पूर्वात् तानि च-अध्ययनानि तथा च-तेनैव प्रकारेण 'क्रमशः' क्रमेणानुपूर्व्या कथयितव्यं प्रतिपादयितव्यमिति गाथासमासार्थः ।। अवय-वार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org