SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४, उद्देशकः - [नि.२३३] १३३ मुच्छियस्सतदसंपत्तीए भावओन दव्वओ, एवं चेवसंपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो उण सुनो। मू.(३९) अहावरेछढे भंते वए राई भोयणाओवेरमणं, सव्वं भंते! राईभोयणं पच्चक्खामि, से असनंवा पानं वा खाइमंवा साइमंवा, नेव सयं राइं भुजेज्जा नेवऽन्नेहिराई /जाविज्जा राइंभुंजेतेऽवि अन्ने न समणुजाणिज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं वायाएकाएणन करेमिन कारवेमि करंतंपिअन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामिनिंदामि गरिहामि अप्पाणं वोसि-रामि। छठे भंते! वए उवढिओमि सव्वाओ राईभोयणाओवेरमण। वृ- उक्तं पञ्चमं महाव्रतं, अधुना षष्ठं व्रतमाह-'अहावरे' इत्यादि, अथापरस्मिन् छठे भदन्त! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्। तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इत्यशनम्-ओदनादि, पीयत इति पानं-मृद्वीकापानादि खाद्यत इति खाद्यं-खजूरादि स्वाद्यत इति स्वाद्यं-ताम्बूलादि, 'नेव सयं राई भुंजेज्जा' नैवस्वयं रात्रौ भुञ्जे नैवान्यैः, रात्रौ भोजयामि रात्रौ भुञ्जानानप्यन्यानैव समनुजानामी इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्। विशेषस्त्वयम्-रात्रिभोजनं चतुर्विधं,तद्यथा-द्रव्यतः क्षेत्रत: कालतो भावतश्च, द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपसमुद्रेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्यामिति। स्वरूपतोऽप्यस्य चातुर्विध्यं, तद्यथा-रात्रौ गृह्णाति रात्रौ भुङ्कते १ रात्रौ गृह्णाति दिवा भुङ्कते २ दिवा गृह्णाति रात्रौ भुङ्कते ३ दिवा गृह्णातिदिवा भुङ्कते ४ संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओनामेगे राई भुंजइ नो भावओ१ भावओनामेगेनोदव्वओर एगेदव्वओऽवि भावओऽवि३ एगेनोदव्वओ नो भावओ ४, तत्थअणुग्गए सूरिए उग्गओत्ति अथमिएवा अनत्थमिओत्ति अरत्तदुट्ठस्सकारणअत्ति रयणीए वा भुंजमाणस्सदव्वओराईभोअणं नो भावओ, स्यणीए भुंजामिमुच्छियस्सतदसंपत्तीए भावओनो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चउत्थभंगो उण सुनो । एतश्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयो: ऋजुजडवक्रजडपुरुषापेक्षयामूलगुणत्वख्यापनार्थमहाव्रतोपरिपठितं, मध्यतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति॥ मू.(४०) इच्चेयाइंपंच महब्बयाईराइभोयणवेरमणछट्ठाई, अत्तहियट्ठयाए उवसंपज्जित्ता नं विहरामि।। वृ- समस्तव्रताभ्युपगमख्यापनायाह-'इच्चेयाई' इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-'आत्महिताय' आत्महितो-मोक्षस्तदर्थम्, अनेनान्यार्थ तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात्, 'उपसंपद्य' सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामि' सुसाधुविहारेण, तदभावे वाङ्गीकृतानामपि व्रतानाम-- भावात्, दोषाश्च हिंसादिकर्तृणामल्यायुर्जिह्वाच्छेददारिद्रद्यपण्डकदुःखितत्वादयो वाच्या इति। साम्प्रतं प्रागुपन्यस्तगाथा व्याख्याते- 'सप्तचत्वारिंशदधिकभङ्गशतं' वक्ष्यमाणलक्षणं 'प्रत्याख्याने' प्रत्याख्यानविषयं, यस्योपलब्धं भवति 'स' इत्थंभूतः प्रत्याख्याने शुकलो-निपुणः, शेषाः सर्वे 'अकुशलाः' तदनभिज्ञा इति गाथासमासार्थः । अवयवार्थस्तु भङ्गकयोजनाप्रधानः, स चैवं दृष्टव्य: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy