________________
१३१
अध्ययनं-४, उद्देशकः- [नि.२३३]
वृ. इदानीं द्वितीयमाह-'अहावरे' इत्यादि, 'अथापरस्मिन् द्वितीये भदन्त! महाव्रते मृषावादद्विरमणं, सर्वं भदन्त! मृषावादंप्रत्याख्यामीति पूर्ववत्, तद्यथा-'क्रोधाद्वा लोभाद्वे'त्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः, भयाद्वः हास्याद्वा' इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः' 'नेव सयं मुसं वएज्ज'त्ति नैव स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यान् न समनुजानामि इत्येतत् ‘यावज्जीव'मित्यादि च भावार्थमधिकृत्य पूर्ववत्।।
विशेषस्त्वयम्-मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेध: असद्भावोद्भावनं अर्थान्तरंगऱ्या च, तत्र सद्भावप्रतिषेधो यथा-नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावोद्भावनं यथाअस्त्यात्मा सर्वगतः श्यामाकतन्दुलमात्रो वेत्यादि, अर्थान्त गामश्वमभिदधत इत्यादि, गर्दा काणं काणमभिदधत इत्यादिः, पुनरयंक्रोधादिभावोपलक्षितश्चतर्विधः, तद्यथा-द्रव्यत: क्षेत्रत: कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो रात्र्यादौ भावतः क्रोधादिभिः इति। द्रव्यादिचतुर्भङ्गी पुनरियम-दव्वओ नामेगे मुसावाए नो भावओ भावओ नामेगे नोदव्वओ एगे दबओऽविभावओऽविएगेनोदव्वओनो भावओ।तत्थ कोइ कहिचि हिंसुज्जओ भणइ-इओ तए पसुमिणा(गा)इणो दिट्ठत्ति?, सो दयाए दिट्ठावि भणइ-न दिलृत्ति, एस दव्वओ मुसावाओनो भावओ, अवरो मुसंभणीहामित्तिपरिणओ सहसा सच्चं भणइएस भावओ नोदव्वओ, अवरो मुसं भणीहामित्तिपरिणओ मुसं चेव भणइ, एस दव्वओऽवि भावओऽवि, चरमभंगो पुण सुण्णो॥
मू.(३६)अहावरे तच्चे भंते ! महव्वए अदिनादाणाओ वेरमणं, सव्वं भंते ! अदिनादाणं पच्चक्खामि, से गामे वा नगरेवास्ने वाअप्पंवा बहुंवाअणुंवाथूलंबाचित्तमंतं वा अचितमंत वा नेव सयं अदिनगिहिज्जा नेवऽन्नेहिं अदिन्नंगिण्हविज्जा अदिन्नंगिण्हतेविअन्नेनसमणजाणामि जार्वज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समनुजाणामि। तस्स भंते! पडिकमामिनिंदामि गरिहामि अप्याणं वोसिरामि। तच्चे भंते! महव्वए उवढिओमिसयाओ अदिन्नादाणाओवेरमण। -
वृ- उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह-'अहावरे' इत्यादि, अथापरस्मिंतस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणं, सर्वं भदन्त! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथा'ग्रामे वा नगरे वा अरण्ये वा' इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति वृद्ध्यादीन् गुणानिति ग्राम: तस्मिन्, नास्मिन् करो विद्यत इति नकरम्, अरण्यं-काननादि। तथा अल्पं वा बहु वा अणु वा स्थूल वा चित्तवद्वा अचित्तवद्वा इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्पं-मूल्यत एरण्डकाष्टादि बहु-वजादिअणु-प्रमाणतो वज्रादिस्थूलम्-एरण्डकाष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेतिचेतनाचेतनमित्यर्थः।
'नेवसयमदिन्नं गेण्हिज्ज'त्ति नैवस्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामिअदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्अदत्तादानं चतुर्विधं-द्रव्यतः क्षेत्रत: कालतो भावतश्च, द्रव्यतोऽल्पादौ क्षेत्रतोग्रामादौ कालतोरात्र्यादौ भावतो रागद्वेषाभ्याम्। द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओनामेगेअदिनादाणे नो भावओ भावओ नामेगे नो दव्वओ एगे दव्वओऽवि भावओऽवि एगे नो दव्वओ नो भावओ। तत्थ अरत्तदुट्ठस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org