________________
१३०
दशवैकालिक - मूलसूत्रं - ४ /-/ ३४ रेणाभिधानां करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं च"पढिए य कहिय अहिगय परिहरउवठावणाई जोगोत्ति । छक्के तीहिं विसुद्धं परिहर नवएण भेदेण ॥ १ ॥ पडपासाउरमादी दिट्टुता होंति वयसमारुहणे । जहमलिणासु दोसा सुद्धाइसु नेवमिहइंपि ॥ २॥ इत्यादि,
एतेसिंलेसुद्देसण सीसहियट्टयाए अत्थो भण्णइ पढियाए सत्थपरिण्णाए दसकालिए छज्जीवनिकाए वा, कहियाए अत्थओ, अभिगयाए संभं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणका एहिं कयकारवियानुमइभेदेण, तओ ठाविज्जइ, न अन्नहा । इमे य इत्थ पड़ादी दिट्टंतामइलो पडोन रंगिज्जइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ न किज्जइ सोहिए किज्जइ, मणाईहिं असोहिए आउरे ओसहंन दिज्जइ सोहिए दिज्जइ, असंठविए रयणे पडिबंधो न किज्जइ संठविए किज्जइ, एवं पढियकहियाईहि असेहिए सीसे न वयारोवणं किज्जई सोहिए किज्जइ, असोहिए य करणे गुरुणो दोसा, सोहियापालणे सिस्सस्स दोसो त्ति कयं पसंगेण ।
यदुक्तम्- 'सर्वं भदन्त ! प्राणातिपातं प्रत्यास्वामी 'ति तदेतद्विशेषण अभिधित्सुरह - 'से सुहुमं . वे 'त्यादि शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मंवा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि ' स्थूरः, स चैकैको द्विधा - त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादि:, बादरस्त्रसो गवादि: स्थावर: पृथिव्यादि:, एतान्, ‘नेव सयं पाणे अइवाएज्ज' त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङा तिङझे भवन्ती' ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि नैवान्यैः प्राणिनोऽतिपातायामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च ' सूक्ष्मं वा बादरंवे' त्यादिनोपलक्षित 'एकग्रहणे तज्जातीग्रहण 'मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा- द्रव्यत: क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा भवतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र - दव्वओ नामेगे पाणाइवाए न भावओ इत्यादिरूप यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति ।
व्रतप्रतिपत्ति निगमयन्नाह - प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि' उप-सामीप्येन तत्परिणामापत्त्या स्थितः इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्यनेन चादिमध्यावसनेषु गुरुमनापृच्छ्य न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदारधितं भवतीत्येवमाह ॥ उक्तं प्रथमं महाव्रतम् ॥
मू. ( ३५ ) अहावरेटुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुखं वइज्जा नेवऽन्नेहिं मुसं वायाविज्जा मुसं वयं तेऽवि अत्रे न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएर्णन करेमि न कारवेम करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते! महव्वए उवद्विओमि सव्वाओ मुसावायाओ वेरमणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org