________________
३१२
पिण्डनिर्युक्तिः- मूलसूत्रं
घृतगुडादिच, ततो यदि कोऽपि साधुरागत्य संविभागयतिमां तर्हि भवामि संसारार्णवोत्तीर्णो यतो निरन्तरं ये स्वाध्यायनिष्पन्नचेतसःप्रतिक्षणंपरिभावयन्तिसकलमपियथावस्थितवस्तुजातम्,
अतएव चदुःखरूपात् संसाराद्विमुखबुद्धयो मोक्षविधावेकताना यथाशक्ति गुर्वादिषु वैयावृत्योद्यताः ये वा परोपदेशप्रवणाः स्वयं सम्यक् संयमानुष्ठानविधायिनश्च तेषां संविभागे कृते तद्गतं ज्ञानाद्युपष्टब्धं भवति, ज्ञानाद्युपष्टम्भे च मम महाल्लाभः, शरीरकं पुनरिदमसारं प्रायो निरुपयोगी च ततो येन तेन वोपष्टब्धं सुखेन वहतीत्येवं भुञ्जानोऽपि शरीरमूर्च्छारहितः प्रवर्द्धमानविशुद्धाध्यवसायो भोजनानन्तरं केवलज्ञानमासादितवान् । सूत्रं सुगमंनवरं 'खल्लगमल्लागलिच्छारियाणि' त्तिमल्लकं- शरावंतदाकाराणियानिखल्लकानिवटांदिपत्रकृतानि भाजनानि दूतानीत्यर्थः, तानि लेच्छारियाणि डिम्भकयोग्यस्तोकपायसप्रक्षेपणेन खरण्टितानीव खरण्टितानि कृतानि 'रुण्डणया' इति अवज्ञया 'हन्दी' त्यामन्त्रणे, भोः श्रमण ! यदि रोचते तर्हिगृहाणंति शेषः ततःशरीरयापनायघृतगुड्युतं पायसं गृहीत्वैकान्तेऽपक्रमणं. शेषं सुगममप. एवमन्येषामपि भावतः शुद्धं गवेषयतामाधाकर्म्मण्यपि गृहीते भुक्ते वा न दोषः भगवदाज्ञाऽऽराधनात । तथा च भगवदाज्ञाराधन कृतमेवादोषं भगवदाज्ञाखण्डनकृतमेव च दोषंविभावयितुकामः कथानकंरूपकचतुष्केणाहमू. (२३४) चंद्रोदयं च सूरोदयं च रन्नो उदोन्नि उज्जाणा । तेसिं विवरियगमने आणाकोवो तओ दंडो ।
मू. (२३५)
सूरोदयं गच्छमहं पभाए, चंदोदयं जंत तणाइहारा । दुहाखी पच्चु रसंतिकाउं, रायावि चंदोदयमेव गच्छे ॥ पत्तलदुमसालगया दच्छामु निवंगणत्तिदुच्चित्ता ।
मू. (२३६)
मू. (२३७)
उज्जाणपाल एहिं गहिया य हया य बद्धा य ॥ सहस पट्टा दिट्ठा इयरेहि निवंगणत्ति तो बल्दा | नित्तस्स य अवरण्हे दंसणमुभओ वहविसग्गा ॥
वृ. चन्द्रानना नाम पुरी, तत्र चन्द्रावतंसो राजा, तस्य त्रिलोकरेखापयभृतयोऽन्तःपुरिकाः, राज्ञश्च द्वे उद्याने, तद्यथा- एक पूर्वस्यां दिशि सूर्योदयाभिधानं, द्वितीयं पश्चिमायां चन्द्रोदयाभिधानं तत्र चान्यदा पयाप्तं वसन्तमासे कस्मिंश्रिद्दिने राजा निजान्तःपुरक्रीडाकौतुकार्थी जनानां पटहंदापितवान्, यथाभोः श्रृणुतजनाः ! प्रभाते राजा सूर्योदयोद्याने निजान्तःपुरिकाभिः सह स्वेच्छं विहरिष्यति, ततो मा तत्र काऽपि यासीत सर्वेऽपि तृणकाष्ठाहारादयश्चन्द्रोदयं गच्छन्त्विति, एवंपटहेदापितेतस्य सूर्योदयोद्यानस्यरक्षणायपदातीनिरूपितवान. यथा न तत्र कस्यापि प्रवेशो दातव्य इति, राजा च निशि चिन्तयामास, सूर्योदयमुद्यानं गच्छतामपि प्रभात सूर्यः प्रत्युरसं भवति, ततः प्रतिनिवर्त्तमानानामपि मध्याह्न. प्रत्युरसं च सूर्या दुःखावहः, तस्माच्चन्द्रोदयं गमिष्यामीति एवंचचिन्तयित्वा प्रातस्तथैव कृतवान, इतश्च पटहश्रवणानन्तरं केऽपि दुर्वृत्ताचिन्तयामासुर्यथा न कदाचिदपि वयं राजान्तःपुरिका दृष्टवन्तः,
प्रातश्च राजा सूर्योदये सान्तःपुरः समागमिष्यति, अन्तःपुरिकाश्च यथेच्छं विहरिष्यन्ति, ततः पत्रबहुलतक शाखासु लीनाः केनाप्यलक्षिना वयं ताः परिभावग्रामः, एवं च चिन्तयित्वा ते तथैव कृतवन्तः, ततःउद्यानरक्षकः कथमपि ते शाखास्वन्तर्लीना दृष्टाः, ततो गृहीता लकुटादिभिश्च हता रज्ज्वादिभिश्च बद्धाः ये चान्ये तृणकाष्ठहारादयो जनास्ते सर्वेऽपि चन्द्रोदयं गताः, तैश्च सहसा प्रविष्टैरग्रे यथेच्छं राज्ञान्तःपुरिकाः क्रीडन्त्यो दृष्टाः ततस्तेऽपि राजपुरुषैर्बद्धाः, ततो नगराभिमुखामुद्यानान्निर्गच्छतो राज्ञउद्यानपालकैः पुरुषैर्द्धयेऽपिबद्धा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only