SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८६ पिण्डनिर्युक्तिः- मूलसूत्र ज्ञानावरणादिकं कर्म, मरणस्थानीयः संसारः, तत्र ये आधाकर्म्मभोक्तृ प्रशंसकास्ते कम्मराज्ञो निग्राह्याः, शेषस्त्वनिग्राह्याः ॥ सम्प्रत्यनुमोदनाप्रकारमेव दर्शयति मू. (१५०) साउं पज्जत्तं आयरेण काले रिउक्खमं निद्धं । तरगुणविकत्थणा अभुंजमाणेऽवि अणुमन्ना ॥ · वृ. आधाकर्म्मभोजिन उद्दिश्य केचिदेवं ब्रुवते वयं तावन्न कदाचनापि मनोज्ञमाहारं लभामहे, एते पुनः संदेवस्वादुलभन्ते तदपि च ' पर्याप्तं परिपूर्ण, तत्रापि आदरेण' बहुमानपुरस्सरतत्रापि काले प्रस्तुतभोजनवेलायां तदपि 'ऋतु' शिशिरादिऋतूपयोगि तथा स्निग्धं' घृतपूरादि, तस्मादन्या अमी सुखं जीवन्ति, एवं तद्गुणविकत्थनया' तद्गुणप्रशंसया 'अभुञ्जनेऽपि' अनभ्यवहरत्यपि 'अनुमन्या' अनुमोदना, इह अनुमन्याजनितो दोषोऽपि कार्ये कारणोपचचारादनुमन्येत्युक्तः, ततोऽयमर्थः - अभुञ्जानेऽपि' अनुमोदनाद्वारेणाधाकर्म्मभोजिनइव दोषो भवतीति, अन्येतु तद्गुणविकत्थनामेवंयोजयन्ति-आधाकर्म्मभोजिनंकाऽपि कन्दर्पेणानाभोगेन वा पृच्छति साधु लब्धंत्वया भोजनं, तथा पर्याप्तं तथा आदरेण भक्त्या इत्यादि ?, तत्राप्यविरोधः ।। तदेवमुक्तान्याधाकर्मणो नामानि तदुक्तौ च यदुक्तं प्राग् मूलद्वारगाथायाम् 'आधाकम्मियनामा' इति तद्याख्यातं सम्प्रति 'एगट्टा' इत्यवयवं व्याचिख्यासुरिदमाह मू. (१५१) आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । जह वंजणनाणत्तं अत्थेणऽवि पुच्छए एवं ।। वृ. अत्र पर एवं पृच्छति, यथा आधाकर्म्म अधःकर्म आत्मघ्नमात्मकर्म्म इत्येतेषु चतुर्षु नामसु व्यञ्जनैर्नानात्वं विद्यते, तथा 'अर्थेनापि' अथपिक्षयापि, नानात्वमस्ति किंवान? इति, पुच्छतश्चायमभिप्रायःइह आधाकम्मादीनां नाम्नां सर्वेषामपि व्युत्पत्तिनिमित्तं पृथक् पृथगुक्तं तद्यथा-आधया कर्म्म आधाकर्म, अत्र साधुविषयप्रणिधानपुरस्सरपाकादिक्रियास्वारम्भो व्युत्पत्तिनिमित्तम्, अधोऽधःकर्म्म अधः कर्म, अत्र विशुद्धेभ्यः संयमादिस्थानेभ्योऽधोऽधस्तरामागमनम्, आत्मानं हन्तीत्यात्मघ्नामिति, अन्न चरणाद्यात्मविनाशनं, परकर्म्म आत्मकर्म्मक्रियते इत्यात्कर्म्म, अत्रपरकर्म्मण आत्मसम्बन्धितयाकरणं, ततोऽत्र संशयो, यथा व्युत्पत्तिनिमित्तं पृथक् पृथग्भन्नमेवं प्रवृत्तिनिमित्तमपिपृथक्पृथग् भिन्नंयथा घटपटशकटादिशब्दानां, किंवा न यथा घटकलशाम्भादीनामिति, अत्र 'आहा अहे य कम्मे' इत्यादावक्षरयोजना प्राणिव भावनीया ॥ एवं परेण प्रश्ने कृते सति शिष्यमतिप्रागल्भ्याधानाय सामान्यतो नामविषयां चतुर्भङ्गिकामाहमू. (१५२) एगट्टा एवंजण एगड़ा नाणवंजणा चेव । नाण एवंजण नाट्टा वंजणानाणा ।। वृ. इह नामानि जगति प्रवर्त्तमानानि कनिचिदुपलभ्यन्ते एकार्थानि एकव्यञ्जनानि कानिचिदेकार्थानि नानाव्यञ्जनानि कानिचिन्नार्थानि एकव्यञ्जनानि कानिचित्पुनर्नानार्थानि नानाव्यञ्जनानि ॥ अस्या एव चतुर्भाङ्गिकायाः क्रमेण लौकिकनिदर्शनानि गाथायेनोपदर्शयति मू. (१५३) दिट्टं खीरं वीरं एवं एगवंजणं लोए । एगट्टं बहुनामं दृछ्र पओ पीन्तु खीरं च ॥ गोमहिसियाखीरं नाणङ्कं एगवंजणं नेयं । मू. (१५४) assesसगडरा होइ पिहत्थं पिनामं ॥ वृ. इहसर्वत्रापि जाताकवेकचनं, ततोऽयमर्थः- एकार्थानि एकव्यञ्जानिनामानिलोकेप्रवर्त्तमानानिदृष्टानि, Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org
SR No.003379
Book TitleAgam Sutra Satik 41B Pindniryukti MoolSutra 2b
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages202
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy