________________
मूल-१२०
२७५
एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भागा भवन्ति। सम्प्रति सूत्रमनुसियते- 'तत्र' तेषु संयमस्थानादिषु वक्त व्येषु प्रथमतः संयमस्थानमुच्यते इति शेषः, 'अनन्ता' अनन्तसङ्ख्याः पाश्रात्यासत्कल्पनया दशलक्षणप्रमाणा ये चारित्रपर्यायाः सर्वजघन्यचारित्र. सत्कविशुद्धिस्थानगतानिर्विभागाभागाःतेसमुदिता:संयमस्थानम् अर्थात्सर्वजघन्यंभवति.तस्मादनन्तरं यद्वितीयसंयमस्थानंतत्पूर्वस्मादनन्तभागवृद्ध,किमुक्तं भवति?-प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीयसंयमस्थाने निविभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीय तत्तोतोऽनन्तभागवृद्धम्, एवं पूर्वस्मादत्तरोत्तराण्यनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद्वक्तव्यानियावदङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति, एतावन्तिचसमुदितानि स्थानानि कण्डकमित्युच्यते, तथा चाह.
'सख्यातीतानि' असङ्ख्येयानि तुः पुनरर्थे तानि' संयमस्थानानि कण्डकं भवति ज्ञातव्यं, कण्डकं नाम दमयपरिभाषयाऽङ्गुलमात्रक्षेत्रासङ्ख्ययभागगतप्रदेशराशिप्रमाणा सङ्ख्याऽभिधीय तथा चोक्तं . "कण्डंति इत्थभण्णइअंगुलभागोअसंखेजो"अस्माच्च कण्डकात्परतोयदन्यदनन्तरं संयमस्थानभवति तत्पूर्वस्मादसङ्ख्येयभागाधिकम्, एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयगस्थानगतनिर्विभागभागापेक्षया कण्डकादनन्तरे संयमस्थाने निविभागाभागा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणिपुनरपिकण्डकमात्राणिसंयमस्थानानियथोत्तवमनन्तभागवृद्धानिभवन्ति,ततःपुनरप्येकमसख्येयभागाधिकं संयमस्थानम्, ततो भूयोऽपि ततः पराणि कण्डकमात्राजण संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्ख्येयभागाधिकं संयमस्थानम्, एवमनन्तभागाधिकः कण्डकप्रमाणः संयमस्थानैर्व्यवहितानि असङ्ख्येयभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणिभवन्ति, ततश्चरमादसङ्ख्येयभागाधिकातृसंयमस्थानात्पराणियथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयम स्थानानि भवन्ति, ततः परमेकं सङ्ख्येयभागाधिक संयमस्थानं, ततो मूलादारभ्य यावन्तिसंयमस्थानानिप्रागतिक्रान्तानितावन्तिभूयोऽपितेनैवक्रमेणाभिधायपुनरप्येसङ्ख्येयभागाधिक संयमस्थानं वक्तव्यम, इदं द्वितीय सङ्ख्येयभागाधिक संयमस्थानं ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम्, अमूनि चैवं सङ्ग्यभागाधिकानि संयमस्थानानि तावद्वक्त व्यानि यावत्कण्ड-कमात्राणि भवन्ति, तत उक्त क्रमेणभूयोऽपि सङ्ख्येयभागाधिकसंयमस्थानप्रसङ्गेसङ्ग्येयगुणाधकमेकंसंळमस्थानं वक्तव्यं ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्ग्यगुणाधिकंसंयमस्थानंवक्त व्यं,ततोभूयोऽपिमूलादारभ्यतावन्ति संयमस्थानानितथैव वक्तव्यानि. ततः पुनरप्यकं सङ्ग्येयगुणाधिकं संयमरस्थानम,
__ अमृन्यायवं राझ्ययगुणाधिकानिसंयमस्थानानितावद्रक्त व्यानियावत्कण्डकमात्राणिभवन्ति,तत उक्त क्रमेण पुनरपि सङ्ख्यगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ख्येयगुणाधिक' संयमस्थानं वक्तव्य, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, नतःपुनराध्यकमसङ्येयगुणाधिकं संयमस्थानंवक्तव्यम्.तताभूयोऽपिमूलादारभ्यतावन्तिसंयमस्थानानि तथैव वक्तव्यानि, ततः पुनरपि एकमसंख्येयगुणाधिकं संयमस्थानं वक्त व्यम्. अभूनि चैवमसङ्ख्येय. गुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसङ्ख्येयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानंवक्त व्यंततःपुनरपिमूलादारभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org