________________
२६८
पिण्डनिर्युक्तिः- मूलसूत्र
केनापिधूर्तेन कृतानि कूटानि यत एवं नलवनान्यतिप्ररूढानि सरस्यां वाऽतीव जलसम्भृता वर्षासु सम्भवन्ति नेदानीं ग्रीष्मकाले, अथ ब्रवीरन् प्रत्यासन्नविन्ध्यपर्वतनिर्झरणप्रवाहत एवं सरस्यो भूता नलवनानि चातिप्ररूढानि ततो नामूनि कूटानि, तदयुक्त म्, अन्यदाऽपि हि खलु निर्झरणान्यासीरन् न चैवं कदाचनाप्यत्तिजलभृताः सरस्योऽभूवन् तथा चैतदर्थसङ्ग्राहिकामेव नियुक्ति कारो गाथां पठतिमू. (९९) विडयमेयं गजकुलाणं, जया रोहंति नलवणा । अन्नयावि झरंति हृदा, न य एवं बहुओदगा ॥
वृ. विदितमेतद् राजकुलानां यदा 'रोहन्ति' अतिशयेन प्ररूढानि भवन्ति नलवनानि, तस्मान्नाभूनि स्वाभाविकानि, अथ निर्झरणवशादेवं प्ररूढानि तत आह- अन्यदाऽपि हृदा झरन्ति, न त्वेवं कदाचनापि बहूदकाः सरस्योऽभवन्, तस्माद्धूर्तेन केनाप्यमूनि कृतानि कूटनीति मात्र यूयं यासिष्ट, एवमुक्ते यैस्तद्रचः प्रतिपन्नं ते दीर्घकालं वनस्वेच्छाविहारसुखभागिनो जाताः, यैस्तुनकृतं ते बन्धबुभुक्षादिदुःखभागिनः इहापि गजयूथाधिपतेर्नलवनसदोषपरिभावनं द्रव्यगवेषणा, दान्तिकयोजना तु पूर्ववत् स्वयमेव भावनीया. तदेवमुक्ता द्रव्यगवेषणा, साम्प्रतं भावगवेषणा कर्तव्या, सा च उद्गमाशुद्धाहारविषया
मू. (१००)
उग्गम उग्गोवण मग्गणः य एगडियाणि यानि ।
नामं ठावणा दविए भावंमि य उग्गमो होई ॥
वृ. उद्गम उद्गोपना मार्ग़णा च एकार्थिकान्येतानि नामानि, सचोद्गमचतुर्था भवति, तद्यथा- 'नाम' ति नामोद्गमः-यदुद्गमइतिनाम, अथवा जीवस्याजीवस्य वायद् उद्गम इतिनामसनामनावतोरभेदोपचारात्, यद्वानाम्ना उद्गमोनामोद्गम इति व्युत्पत्तेन मोदौगमःस्थापनोद्गमः उद्गमः स्थाप्यमानः, 'द्रव्ये' द्रव्यविषयः, 'भावे' भावविषयः ।। तत्र द्रव्योद्गमो द्विधा - आगमतो नोआगमतश्र, नोआगमतोऽपि त्रिधाज्ञशरीरभव्यशरीतद्व्यतिरिक्त भेदात् तत्राऽऽगमतोनो आगमतश्रज्ञशरीरभव्यशरीररूपौ द्रव्यगवेषणावद् भावनीयौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योद्गमं तथा नोआगमतो भावोद्गमं च प्रतिपादयतिमू. (१०१) दव्वंमि लड्डुगाई भावे तिविहोग्गमो मुनेयव्वा । दंसणनाणचरिते चरितुरगमेणेत्थ अहिगारो ॥
वृ. 'द्रव्यं' द्रव्यविषये उद्गमः 'लड्डुकादी' लड्डुकादिविषयो लड्डुकादेः सम्बन्धी वेदितव्यः, अत्राऽऽदिशब्दाद ज्योतिरादिपरिग्रहः, तथा 'भावे' भावविषयः 'त्रिविधः' त्रिप्रकारः ज्ञातव्यः, तद्यथा - 'दर्शने' दर्शनविषयः ज्ञाने ज्ञानविषयः, 'चारित्र' चारित्रविषयः, अत्र तु चारित्रोद्गमेनाधिकार:- प्रयोजनं, चारित्रस्य प्रधानमोक्षाङ्गत्वात, तथाहि ज्ञानदर्शन सती अपि न चारित्रमन्तरेण कमम्मलापगमाय प्रभवतः, श्रेणिकाटा तथाऽनुपलम्भात् चरित्रं पुनरवश्यं ज्ञानदर्शनाविनाभावि स्वरूपेणापि चाभिनवकम्मां पादाननिषेधपूर्वापार्जितकर्म्मापगमकरणस्वरूपं ततस्तत्पयधानं मानस्यानं प्रधानानुयायिन्यच प्रेक्षावतां प्रवृत्तयः. ततोऽत्र चारित्रोद्गमेन प्रयोजनम् ॥ लड्डुकादरित्यत्रादिशब्देन लब्धं ज्योतिरुद्गमादिरूपं द्रव्यादराम - मू. (१०२) जोइसतणोसहीणं मेहरिणकराणमुग्गमो दव्वें । in go जत्तोय जया जहा य दब्बुरगमी बच्ची ॥
वृ. ज्योतिषां चन्द्रसूर्यादीनां तृणानां दर्भादीनां औषधीनां शाल्यादीनां मेघानां जीभूतानां ऋणस्यउत्तमर्णाय दातव्यस्य कराणां राजदेयभागानां उपलक्ष्णमेतत अन्येषामपि द्रव्याणां य उद्गमः स 'द्रव्ये' द्रव्यविषयो द्रव्यस्य सम्बन्धी वेदितव्यः स पुर्नर्द्रव्योद्गमः 'यतः यस्मान्सकाशात 'यदा' यस्मिन काले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org