SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६० पिण्डनिर्युक्तिः- मूलसूत्रं प्रदेशस्त्रसमुदायः कथं तु न पिण्ड इति व्यपदिश्यते ?, सोऽपि पिण्ड इति व्यपदिश्यताम् उभयत्राप्युक्त नीत्या विशेषाभावात् || सम्प्रति जत्थ जया तप्परूवणया' इत्येतद्वयाचिख्यासुर्नामस्थापनाद्रव्यभावपिण्डानां योगविभागसम्भवात् पारमार्थिकं पिण्डत्वं क्षेत्रकालयोस्तु योगविभागासम्भवत् औपचारिकं प्रतिपादयन्नाहमू. (७३) अहवा चउण्हयमा जोगविभागेन जुज्जए पिंडो । देसु जहियं तु पिंडो वणिज्जइ कीरए वावि ॥ 1 } वृ. अथवेति प्रकारन्तरयोतने, पूर्वं हि क्षेत्रकालयोयथासङ्ख्यं प्रदेशमयानां परस्परानुवेधत सङ्ख्याबाहुल्यतश्चपारमार्थिकंपिण्डत्वमुक्तं यद्वातन्नयुज्यत एव, योगविभागासम्भवात्, तथाहि लोके यत्र योगे सति विभागः कर्त्तुं शक्यते विभागे वा सतियोगः तत्र पिण्ड इति व्यपदेशः, न च क्षेत्र प्रदेश योगे सत्यपि विभागः कर्त्तुं शक्यः, नित्यत्वेन तेषां तथा व्यवस्थितानामन्यथा कर्तुमशक्यत्वात्, ततो न तत्र पारमार्थिकं पिण्डत्वं, यथा समयो वर्त्तमान एव सन् नातीतोऽनागतो वा, तयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात्, ततोऽत्र विभाग एव न तु कदाचनापि योग इति पारमार्थिकपिण्डत्वाभावः, ततोऽन्यथा क्षेत्रकालपिण्डप्ररूपणा कर्त्तव्येति प्रकारान्तरता, 'चतुर्णां ' नामस्थापनाद्रव्यभावपिण्डानां 'योगविभागेन' योगविभागसम्भवेन नियमात्पिंड इति व्यपदेशो युज्यते, तथाहि नाम्नः पिण्डो नामनामवतोरभेदोपचारात् यद्वा नाम्ना पिण्डो नामपिण्ड इति 'व्युत्पत्तेः पुरुषादिकमेव भण्यते, तस्य च हस्तपादादिभिरवयवैर्युक्त स्यापि खङ्गादिभिविर्भागः कर्तुं शक्यते अत्यस्ति योगे सति विभाग, यद्वा पूर्व गर्भे मांसपेशीरूपस्य सतो हस्तादिभिरवयवैर्वियोगः पश्चात्क्रमेण तैः सह संयोग इति विभागे सतिं योगः ततः पिण्डरूपता, तथा स्थापनापिण्डेऽक्षत्रिकादिरूपे पूर्वं विभागे सति. संयोगः संयोगेवासति विभाग इति पिण्डरूपता, द्रव्यपिण्डेऽपि गुडौदनादिके विभागपूर्वकः संयोगः संयोगपूर्वको वा विभागः सुप्रतीत इति पारमार्थिक पिण्डरूपता, भावपिण्डेऽपि भावभावदतोः कथञ्चिदभेदात्साध्वादिरेव मूर्ती विग्रहवान् गृह्यते, तत्र संयोगविभागौ नामपिण्ड इव तात्विका विति पारमार्थिका पिण्डरूपता, क्षेत्र - कालयोस्तूक्त नीत्या न संयोगविभागाविति न तत्र पिण्डशब्दप्रवृत्तिः, तस्मान्नामादिपिण्ड एव तत्तत् क्षेत्रनिवासादिकं पर्यायमुद्भूतरूपं विवक्षित्वा क्षेत्रपिण्डकालपिण्डशब्दाभ्यां व्यपदिश्यते, तथा चाह- 'दोसुजहियंतु' इत्यादि 'द्वयोः' क्षेत्रकालयोः 'यत्र' वसत्यादौपदा वा प्रथमपौरुष्यादौ यः पिण्डो नामादिरूपो व्यावर्ण्यते यद्वा यत्र गृहे महानसादौ वा पिण्डो गुडपिण्डादिर्मोदकादिपिण्डो वा क्रियते यदा वा प्रथम प्रहरादौ निष्पाद्यते स व्यावर्ण्यमानो नामादिपिण्डः क्रियमाणो वा गुडौदनादिपिण्डस्तत्क्षेत्रकालापेक्षया क्षेत्रपिण्ड कालपिण्डश्च व्यपदिश्यते, यथाऽमुकवसत्यादिक्षेत्रपिण्डः प्रथमपौरुषीपिण्ड - इत्यादि । उक्तौ क्षेत्रकालपिण्डौ, सम्प्रति भावपिण्डभिधित्सुराह मू. (७४) डुविहो उभावपिण्डी पसत्थओ चेव अप्पसत्थो य । एएसिं दोपहपि य पत्तेय पव्वणं वाच्छं ॥ वृ. द्विविधः ' द्विप्रकारः भावपिण्डः, तद्यथा प्रशस्तोऽप्रशस्तच, तत एतयोर्द्वयोरपि प्रत्येकं प्ररूपणांप्ररूप्येते द्वावपिभावपिण्डौ यया गाथापळत्या साप्ररूपणा तां वक्ष्ये ॥ प्रतिज्ञातमेव गाथाचतुष्टयेन निर्वाहयतिमू. (७५) एगविहाइ दसविहो पसत्थओ चेव अप्पसत्था य । संजर्म विज्जाचरणे नाणादितिगं च तिविहो । नाणं दंसम संजमो व वय पंच छच्च जाणेज्ना । पिंडेसण पाणेसण उग्गहपडिमा य पिंडम्मि || For Private & Personal Use Only मू. (७६) Jain Education International - www.jainelibrary.org
SR No.003379
Book TitleAgam Sutra Satik 41B Pindniryukti MoolSutra 2b
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages202
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy